________________ सिद्धहैमहत्मक्रिया. [ कृदन्ते समुद्रश्च / इंण्क् गतौ / एत्वं गमनपरम् / ध्य चिन्तायाम् / ध्यात्वं ब्राह्मणः / प्यङ् वृद्धौ / प्यात्वं ब्राह्मणः समुद्रः नेत्रं च / पां पाने। पात्वं पात्रम् / डुदांग्क् दाने / दाखः आयुक्तः यज्वा यज्ञश्च / मांक माने / मावम् ममेयद्रव्यम् / ___ कृजन्येधिपाभ्य इत्वः // 526 // एभ्य इतः प्रत्ययः स्यात् / डुकंग करणे। करितः करणशीलः / जनैचि प्रादुर्भावे / जनिखः लोकः मातापितरौ द्यावापृथिव्यौ च / जनित्वं कुलम् / एधि वृद्धौ। एघिखः अग्निः समुद्रः शैलश्च / पां पाने / पेत्वं तप्तभूमिप्रदेशः अमृतं नेत्रं सुखं मानं च। पादाघम्यमिभ्यः शः // 527 // एभ्यः शः प्रत्ययः स्यात् / पांक् रक्षणे / पाशः बन्धनम् / डुदांग्क् दाने / दाशः कैवर्तः। टुवमू उद्दिरणे। वंशः वेणुः / अम गतौ / अंशः भागः। कृभृवृवनिभ्यः कित् // 528 // एशः कित् शः प्रत्ययः स्यात् / डुकंग करणे / कृशः तनुः / ग्ट वरणे / दृशं शृङ्गवेरम् मूलकं लशुनं च / टुडु,ग्क् पोषणे च / भृशम् अत्यर्थम् / वन भक्तौ / वशः आयत्तः। कोर्षा // 529 // कुंङ् शब्दे इत्यस्मात् शः प्रत्ययः स च किद्वा स्यात् / कुशः दर्भः / कोशः सारं कुड्मलं च। क्लिशः के च // 530 // क्लिशौश् विवाधने इत्यस्मात् शः प्रत्ययोऽस्य च के इत्यादेशः स्यात् / केशाः मर्धजाः। उरेरशक् // 531 // उर गतावित्यस्मात् सौत्रादशक् प्रत्ययः स्यात् / उरशः ऋषिः। कलेष्टित् // 532 // कलि शब्दसंख्यानयोरित्यस्मात् टिदशक् प्रत्ययः स्यात् / कलशः कुम्भः। कलशी दधिमन्थनभाजनम् / पलेराशः // 533 // पल गतावित्यस्मादाशः प्रत्ययः स्यात् / पलाशः ब्रह्मक्षः। कनेरीश्चातः // 534 // कनै दीप्त्यादावित्यस्मादाशः प्रत्यय ईकारश्चाकारस्य। कीनाशः कर्षकः वर्णसंकरः कदर्यश्च / तथा-" लुब्धः कीनाशः स्यात् कीनाशोऽप्युच्यते कृतघ्नश्च / योऽनाति वाऽऽममांसं स च कीनाशो यमश्चैव // 1 // कुलिकनिकणिपलिवडिभ्यः किशः // 535 // एभ्यः कित् इशः प्रत्ययः