SearchBrowseAboutContactDonate
Page Preview
Page 822
Loading...
Download File
Download File
Page Text
________________ उणादिप्रकरणम् ] सिद्धहैमबृहत्पक्रिया. रस्तुत्योः / पणवः वाद्यजाति; / पल्ल गतौ / पल्लवः किसलयम् / वल्लि संवरणे / बल्लवः गोपः। माणिवसेर्णित् // 16 // आभ्यां णिदवः प्रत्ययः स्यात् / मण शब्दे / माणवः शिष्यः / वसं निवासे / वासवः शक्रः / मलेर्वा // 517 // मलि धारणे इत्यस्मादवः प्रत्ययः स च णिद्वा / मालवाः जनपदः / मलवः दानवः। कितिकुडिकुरिमुरिस्थाभ्यः कित् // 518 // एभ्यः किदवः प्रत्ययः स्यात् / कित् निवासे / कितवः द्यूतकारः / कुडत् बाल्ये च / कुडवः मानम् / लत्वे-कुलवः स एव नालीद्वयं च / कुरत् शब्दे / कुरवः पुष्पवृक्षजातिः। मुरत् संवेष्टने / मुरवः मानविशेषः वाघजातिश्च / ष्ठां गतिनिवृत्तौ / स्थवः अजादृषः। कैरवभैरवमुतवकारण्डवादीनवादयः // 519 // कैरवादयः शब्दा अवप्रत्ययान्ता निपात्यन्ते / कृरभृगोः कैरभैरावादेशौ / कैरवंः कुमुदम् / भैरवः भर्गः भयानकश्च / मिनोतेर्मुत् च / मुतवः मानविशेषः। कृगोऽण्डोन्तो वृद्धिश्च / कारण्डवः जलपक्षी / आपूर्वादीङो नोऽन्तश्च / आदीनवः दोषः / आदिग्रहणात् कोद्रवकोटवादयोऽपि भवन्ति / शृणातेरावः / / 520 // शृश् हिंसायामित्यस्मादावः प्रत्ययः स्यात् / शरावः मल्लकः। प्रथरिवट पृथ् च // 521 // प्रथिष् प्रख्याने इत्यस्मादिवट् प्रत्ययोऽस्य च पृथ् इत्यादेशः स्यात् / पृथिवी भूः। पलिसचेरिवः // 522 // पलण रक्षणे पचि सेवने इत्याभ्यामिवः प्रत्ययः स्यात् / पलिवः गोप्ता / सचिवः सहायः / स्पृशेः श्वः पार् च // 523 // स्पृशत् संस्पर्शे इत्यस्मात् श्वः प्रत्ययोऽस्य च पारित्यादेशः स्यात् / पार्श्व स्वाङ्गं समीपं च / पार्श्वः भगवाँस्तीर्थकरः। कुडितुड्यडेरुवः // 524 // एभ्य उवः प्रत्ययः स्यात् / कुडत् बाल्ये च / कुडुवं प्रसृतहस्तमानम् / तुडत् तोडने / तुडुवम् अपनेयद्रव्यम् / अड उद्यमे / अडुवः प्लवः / नीविण्ध्यैप्यापादामाभ्यस्त्वः // 525 // एभ्यस्त्वः प्रत्ययः स्यात् / णींग प्रापणे / नेत्वं द्यावापृथिव्यौ चन्द्रश्च / हुंक् दानादनयोः। होत्वं यजमानः 102
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy