________________ उणादिप्रकरणम् ] सिद्धहैमबृहत्मक्रिया. न्यावरोधयोः / बलालः वायुः। पचुङ व्यक्तीकरणे। पञ्चालः ऋषिः राजा च। पञ्चाला जनपदः / मगु गतौ / मङ्गालः देशः। गडु वदनैकदेशे / गण्डालः मत्तहस्ती / मह भूषायाम् / मण्डालः ऋषिः राजा च / चडुङ् कोपे। चण्डालः श्वपचः / __'अकृतज्ञमकार्यज्ञं दीर्घरोषमनार्जवम् / चतुरो विद्धि चण्डालान् जन्मना चेति पञ्चमम् // 1 // तडुङ् आघाते / तण्डालः क्षुपः / पिडुङ् संघाते / पिण्डालः कन्दजातिः / टुनदु समृद्धौ / नन्दालः राजा / णद अव्यक्ते शब्दे / नदालः नादवान् / शक्लंट् शक्तौ / शकालाः जनपदः मूर्खधनी च / कूलिपिलिविशिबिडिमृडिकुणिपीप्रीभ्यः कित् // 476 // एभ्यः किदालः प्रत्ययः स्यात् / कुल बन्धुसंस्त्यानयोः। कुलालः कुम्भकारः / पिलत क्षेपे / पिलालं श्लिष्टम् / विशंत् प्रवेशने / विशालं विस्तीर्णम् / बिड आक्रोशे / बिडालः मार्जारः / लत्वे बिलालः स एव / मृणत् हिंसायाम् / मृणालं बिसम् / कुणत शब्दोपकरणयोः / कुणालः कृतमालः कटविशेषश्च / कुणालं नगरं कठिनं च / पीच पाने / पियालः वृक्षः / पियालं शाकं वीरुच्च / मीञ्च प्रीतौ / प्रियालः पियालः। भजेः कगौ च // 477 // भजी सेवायामित्यस्मात् किदालः प्रत्ययः कगौ चान्तादेशौ स्याताम् / भकालम् भगालं / उभयं कपालम् / सर्तेोऽन्तश्च // 478 // सं गतावित्यस्मात् किदालः प्रत्ययः स्याद् गश्चान्तः / सृगालः क्रोष्टा / / पतिकलूभ्यो णित् // 479 / / एभ्यो णिदालः प्रत्ययः स्यात् / पतल गतौ / पातालं रसातलम् / इकंग करणे / कारालं लेपद्रव्यम् / लूग्श् छेदने / लावालः उद्दन्तः। चात्वालककालहिन्तालवेतालजम्बालशब्दालममाप्तालादयः।४८०॥ एते आलप्रत्ययान्ता निपात्यन्ते / चतेाऽन्तो दीर्घश्च / चात्वालः यज्ञगतः / कचेः स्वरान्नोन्तः कश्च / कङ्कालः कलेवरम् / हिंसेस्त च / हिन्तालः वृक्षविशेषः / वियस्तोऽन्तो गुणश्च / वेतालः रजनीचरविशेषः / जनेोऽन्तश्च / जम्बालः कर्दमः शैवलं च / शमेर्ऋषेर्वा शब्दभावश्च / शब्दालः शब्दनशीलः। मवेवलोपो माप्तश्चान्तः / ममाप्तालः मतिः स्नेहः पुत्रादिषु स्नेहबन्धनं च / आदिशब्दाचक्र