________________ 802 सिद्धहैमबृहत्मक्रिया. [कृदन्ते छोडग्गादिर्वा // 471 // छोंच् छेदने इत्यस्मात् किदलः प्रत्ययः स च डगादिर्गादिश्च वा / छगलः छागः। छागलः ऋषिः / छलं वचनविघातोऽर्थविकल्पोपपत्या। मृजिवन्याहनिभ्यो डित् // 472 / / एभ्यो डिदलः प्रत्ययः स्यात् / मृजौक शुद्धौ। मलं बाह्यं रजः अन्तर्दोषश्च / खनूग अवदारणे / खलः दुजेनः निष्पीडितरसं पिण्याकादि / खलं सस्यग्रहणभूमिः। हनं हिंसागत्योः आङ्पूर्वः। आहलः विषाणं नखरश्च / स्थो वा // 473 // तिष्ठतेरलः प्रत्ययः स च डिद्वा / स्थलं प्रदेशविशेषः / स्थालं भाजनम् / मुरलोरलविरलकेरलकपिजलकजलेजलकोमलभृमलसिंहलकाहलशूकलपाकलयुगलभगलविदलकुन्तलोत्पलादयः!!४७४॥ एतेऽलप्रत्ययान्ता निपात्यन्ते / मुर्म्युयोर्वलोपः किच्च / मुरलाः जनपदः / उरलः उत्कटः। विपूर्वाद् रमेडिंच्च / विरलः असंहतः। किरः केर् च / केरलाः जनपदः / कम्पेरिञ्जोऽन्तो नलोपश्च / कपिञ्जलः गौरतित्तिरिः। कपीषो|ऽन्तो जश्च / कज्जलं मषी / इज्जल: वृक्षविशेषः / कमेरत ओच्च / कोमलं मृदु / भ्रमे म च / भृमल: वायुः कृमिजातिथ। भृमलं चक्रम् / हिंसेराधन्तविपर्ययश्च / सिंहलाः जनपदः / कणे) दीर्घश्च / काहलः अव्यक्तवाक् / काहला वाचविशेषः। शकेरूचास्य / शूकलः अश्वाधमः / पचेः पाक् च / पाकल: हस्तिज्वरः / युजेः कित् ग च / युगलं युग्मम् / भातेोऽन्तो इस्खश्च / भगलः मुनिः। विन्देनलोपश्च / विदलं वेणुदलम् / कनेरत उत् तोऽन्तश्च / कुन्तलाः जनपदः केशाश्च / उत्पूर्वात् पिबतेईस्वश्च / उत्पलं पद्मम् / आदिग्रहणात् सुवर्चलामुद्गलपुद्गलादयो भवन्ति / ऋकृमृवृतनितमिचषिचपिकपिकीलिपलिबलिपश्चिमङ्गिगण्डिमण्डिचण्डितण्डिपिण्डिनन्दिनदिशकिभ्य आलः // 475 // एभ्य आलः प्रत्ययः स्यात् / ऋक् गतौ। अरालं वक्रम् / डुकुंग करणे / करालम् उच्चम् / मृत् प्राणत्यागे। मरालः हंसः महाँश्च / गट वरणे / वरालः वदान्यः / तनूयी विस्तारे। तनालं जलाशयः। तमूच काङ्खायाम् / तमाल: वृक्षः व्यालश्च / चषी भक्षणे / चपालं यज्ञद्रव्यम् / कपिः सौत्रः। कपालं घटाद्यवयवः शिरोऽस्थि च। कील बन्थे / कीलालं मद्यं जलममृक् च। पल गतौ / पलालम् अकणो व्रीह्यादिः। बल प्राणनधा