________________ [ कृदन्ते 804 सिद्धहैमबृहत्प्रक्रिया. वालकरवालालवालादयो भवन्ति / कल्यनिमहिद्रमिजटिभटिकुटिचण्डिशण्डितुण्डिपिण्डिभूकुकिभ्य इलः // 481 // एभ्य इलः प्रत्ययः स्यात् / कलि शब्दसंख्यानयोः / कलिलं गहनं पापम् आत्माधिष्ठितं च शुक्रार्तवम् / अनक् प्राणने / अनिल: वायुः / मह पूजायाम् / महिला स्त्री / द्रम गतौ / द्रमिलाः राज्यवासिनः / जट झट संघाते / जटिलः जटावान् / भट भृतौ / भटिलः श्वा सेवकश्च / कुटत् कौटिल्ये। कुटिलं वक्रम् / चडुङ् कोपे / चण्डिलःश्वा क्रोधनः नापितश्च / शडुङ रुजायाम् / शण्डिलः ऋषिः / तुडुङ् तोडने / तुण्डिलः वागजाली / पिडुङ् संघाते / पिण्डिलः मेघः हिंस्रः हिमः गणकश्च / भू सत्तायाम् / भविल: मुनिः समर्थः गृहं बहुनेता च / कुकि आदाने / कोकिलः परभृतः / भण्डेनलुक च वा // 482 // भडुङ् परिभाषणे इत्यस्मात् इलः प्रत्ययो नकारस्य च लुग्वा / भडिल; ऋषिः पिशाचः शत्रुश्च / भण्डिलः श्वा दूतः ऋषिश्च / गुपिमिथिध्रुभ्यः कित् // 483 // एभ्यः किदिलः प्रत्ययः स्यात् / गुपौ रक्षणे / गुपिलं गहनम् / मिश्रृग् मेधाहिंसयोः / मिथिला नगरी / ध्रु स्थैर्ये च / ध्रुविलः ऋषिः। स्थण्डिलकपिलविचकिलादयः // 484 // स्थण्डिलादयः शब्दा इलपत्ययान्ता निपात्यन्ते / स्थलेः स्थण्ड् च / स्थण्डिलं अतिशयनवेदिका / कबेः प च / कपिलः वर्णः ऋषिश्च। विचेरकोऽन्तश्च / विचकिल: मल्लिकाविशेषः। आदिग्रहणाद गोभिलनिकुम्भिलादयो भवन्ति / हृषितिचटिपटिशकिशङ्कितण्डिमङ्ग्युत्कण्ठिभ्य उलः // 48 // एभ्य उल; प्रत्ययः स्यात् / हृषच तुष्टौ, हृषू अलीके वा। हर्षलः हर्षवान् कामी मृगश्च / वृतू वर्तने / वर्तुलः वृत्तः। चटण भेदे / चटुलः चञ्चलः / पट गतौ / पटुलः वाग्मी / शक्लंट शक्तौ / शकुलः मत्स्यः। शकुङ् शङ्कायाम् / शकुला क्रीडनशकुः बन्धनभाण्डम् आयुधं च / तडुङ् ताडने / तण्डुलो निस्तुषो व्रीह्यादिः / मगु गतौ / मङ्गुलं न्यायापेतम् / कठुङ् शोके उत्पूर्वः / उत्कण्ठुलः उत्कण्ठावान् / - स्थावङ्किबंहिबिन्दिभ्यः किन्नलुक् च // 486 // एभ्यः किदुलः प्रत्ययो नकारस्य च लुक् स्यात् / ष्ठां गतिनिवृत्तौ / स्थुलं पटकुटीविशेषः / वकुङ् कौटिल्ये / बकुलः केसरः ऋषिश्च / बहुङ् वृद्धौ / बहुलं प्रचुरम् / बहुल: प्रासकः कृष्णपक्षश्च /