SearchBrowseAboutContactDonate
Page Preview
Page 808
Loading...
Download File
Download File
Page Text
________________ उणादिप्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 795 खर्ज मार्जने च / खजूरः वृक्षविशेषः। कर्ज व्यथने / कर्जूरः स एव मलिनश्च / सर्ज अर्जने / सर्जूरः अहः / कृपौङ् सामर्थ्ये / कर्पूरः गन्धद्रव्यम् / वल्लि संवरणे। वल्लूरः शुष्कं मांसम् / मडु भूषायाम् / मण्डूरः धातुविशेषः / ___ महिकणिचण्यणिपल्यलितलिमलिशलिभ्यो णित् // 428 // एभ्यो णिदुरः प्रत्यय: स्यात् / मह पूजायाम् / माहूरः शैलः। कण गतौ / कारः नागः। चण हिंसादानयोश्च / चाणूरः मल्लो विष्णुहतः / अण शब्दे / आणूरः ग्रामः / पल गतौ / पालूरं नाम नगरमान्ध्रराज्ये / अली भूषणादौ / आलूरः विटः / तलण प्रति. ष्ठायाम् / तालूरः जलावर्तः। मलि धारणे। मालूरः दानवः विल्वश्च / शल गतौ / शालूरः दर्दुरः। स्थाविडेः कित् // 429 // आभ्यां किदुरः प्रत्ययः स्यात् / ष्ठां गतिनिवृत्तौ। स्थूरः बठरः उच्चश्च / स्थूरा जवापदेशः / विड आक्रोशे / विडूरः बालवाये ग्रामः। सिन्दूरकच्चूंरपत्तूरधुत्तूरादयः // 430 // एते ऊरप्रत्ययान्ता निपात्यन्ते / स्यन्देः सिन्द च / सिन्दूरं चीनपिष्टम् / करोतेश्वोऽन्तश्च / कर्चुरः औषधविशेषः। पतेस्तोऽन्तश्च / पत्तूरं गन्धद्रव्यम् / धुवो द्विरुक्तस्तोऽन्तो इस्खश्च / धुत्तूर उन्मत्तकः। दधातेर्धत्तूर इत्यन्ये / आदिग्रहणात् कस्तूरहारहूरादयो भवन्ति / कुगुपतिकथिकुथिकठिकुठिकुटिगडिगुडिमुदिमूलिदंशिभ्यः केरः // 431 // एभ्यः किदेरः प्रत्ययः स्यात् / कुंङ् शब्दे। कुबेरः धनदः / गुंत पुरीषोत्सर्गे ! गुवेरं युद्धम् / पत्ल गतौ / पतेरः पक्षी पवनश्च / कथण वाक्यप्रबन्धे / कथेरः कथकः कुहकः शकुन्तश्च / कुथच् पूतिभावे / कुरः शिडाकीसंभारः। कठ कृच्छ्रजीवने / कठेरः दरिद्रः / कुठिः सौत्रः / कुठेरः निःसृतसारः अर्जकश्च / कुटत कौटिल्ये / कुटेरः शठः / गड सेचने / गडेरः मेघः प्रस्रवणशीलश्च / गुडत रक्षायाम् / गुडेरः राजा पण्यं च बालभक्ष्यम् / मुदि हर्षे / मुदेरः मूर्खः। मूल प्रतिष्ठायाम् / मूलेरः वनस्पतिः / मूलेरं पण्यम् / दंशं दशने / दशेरः सर्पः सारमेयः जनपदश्च / शतेरादयः // 432 // शतेरादयः शब्दाः केरमत्ययान्ता निपात्यन्ते / शलं शातने तश्च / शतेरः वायुः तुषारश्च। आदिग्रहणात् गुधेरशृङ्गवेरनालिकेरादयो भवन्ति। ____कठिचकिसहिभ्य ओरः // 433 / / एभ्य ओरः प्रत्ययः स्यात् / कठ कृच्छ्रजीवने / कठोरः अमृदुः चिरंतनश्च / चकि तृप्तौ च / चकोरः पक्षिविशेषः पर्वत
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy