________________ 796 सिद्धहैमबृहत्मक्रिया. [ कृदन्ते विशेषश्च / पहि मर्षणे / सहोरः विष्णुः पर्वतश्च / कोरचोरमोरकिशोरघोरहोरादोरादयः // 434 // कोरादयः शब्दा ओरप्रत्ययान्ता निपात्यन्ते / कायतेश्चरतेम्रियतेश्च डित् / कोरः बालपुष्पम् / चोरः तस्करः। मोरः मयूरः / कृशेरिचोपान्त्यस्य / किशोरः तरुणः बालाश्वश्च / हन्तेर्डित् घश्च / घोरं कष्टम् / हृग हरणे / होरा निमित्तवादिनां चक्ररेखा / डुदांग्क् दाने, दोच् छेदने वा / दोरः कटिसूत्रं तन्तुगुणश्च / आदिग्रहणादन्येऽपि / किशवभ्यः करः // 435 // एभ्यः करः प्रत्ययः स्यात / किः सौत्रः / केकरः वक्रदृष्टिः / शृश् हिंसायाम् / शर्करा मत्स्यण्डिकादिः कर्कशः क्षुद्रपाषाणावयवश्च / वृगट वरणे / वर्करः छागशिशुः / सूपुषिभ्यां कित् // 436 // आभ्यां कित् करः प्रत्ययः स्यात् / प्त् प्रेरणे। सूकरः वराहः / पुष् पुष्टौ / पुष्करं पद्मं तूर्यमुखं हस्तिहस्ताग्रम् आकाशं मुरजः तीर्थनाम च / ___अनिकाभ्यां तरः॥४३७॥ आभ्यां तरः प्रत्ययः स्यात् / अनक प्राणने / अन्तरं बहिर्योगोपसंव्यानयोः छिद्रमध्यविरहविशेषेषु च / के शन्दे / कातरः भीरुः। इण्पूभ्यां कित् // 438 // आभ्यां कित् तरः प्रत्ययः स्यात् / इंण्क् गतौ / इतरः निर्दिष्टप्रतियोगी / पूगश् पवने / पूतरः जलजन्तुः। माज्यजिमामद्यशोवसिकिभ्यः सरः // 439 / एभ्यः सरः प्रत्ययः स्यात् / मीञ्च हिंसायाम् / मेसरः वर्णविशेषः / जिं अभिभवे। जेसरः शूरः / अज क्षेपणे च / वेसरः अश्वतरः। विसृग गतावित्यस्य वा जठरेत्यादि निपातनादरे रूपम् / मांक माने / मासरः आयामः / मदेच् हर्षे / मत्सरः क्रोधविशेषः। अशौटि व्याप्तौ। अक्षरं वर्णः मोक्षपदम् आकाशं च / अक्षेर्वा अरे रूपम् / वसं निवासे / वत्सरः संवत्सरः परिवत्सरः अनुवत्सरः अनुसंवत्सरः विवत्सरः उद्वत्सरः वर्षाभिधानानि / इडा मानेन वसन्त्यत्र कालावयवा इति इड्संवत्सरः, इडया मानेन वसन्त्यत्रेति इडावत्सरः वर्षविशेषाभिधाने / परिवत्सरादीन्यपि वर्णविशेषा. भिधानानीत्येके / कि इत्यदादौ स्मरन्ति / केसरः सिंहसटः पुष्पावयवः बकुलश्च / बाहुलकान षत्वम् / कृधूतन्युषिभ्यः कित् // 440 // एभ्यः कित् सरः प्रत्यय: स्यात् / डुकंग करणे। कसरः कृसरा वा विलेपिकाविशेषः वर्णविशेषश्च / धूत विधूनने /