________________ उपादिप्रकरणम् ] . सिद्धहैमबृहत्प्रक्रिया. शृश् हिंसायाम् / शरीरं वपुः / पृश् पालनपूरणयोः। परीरं बलं लाङ्गलमुखं च / पूगा पवने / पवीरं रङ्गस्थानं फलं पवित्रं बीजावपनं च / मञ्जिः सौत्रः / मञ्जीरं नूपुरः / कुटत् कौटिल्ये। कुटीरम् आलयः कर्कटक: चन्द्राश्रयराशिश्च / कोटीरं मुकुटः / वाहुलकाद् गुणः / कटे वर्षावरणयोः। कटीरं जनपदः जघनं जलं च / पट गतौ / पटोरः कन्दर्पः / पटीरं कार्मुकं स्फिक् च / कडु मदे / कण्डीरं हरितकम् / शौण्ड गर्ने / शौण्डीरः गर्वितः सत्त्ववान् तीक्ष्णश्च / हिसुप हिंसायाम् / हिंसीरः श्वापदः हिंस्रश्च / घसिवशिपुटिकुरिकुलिकाभ्यः कित् // 419 // एभ्यः किदीरः प्रत्ययः स्यात् / घस्लं अदने / क्षीरं दुग्धं मेघश्च / वशक् कान्तौ / उशीरं वीरणीमूलम् / पुटत् संश्लेषणे / पुटीरः कूर्मः / कुरत् शब्दे / कुरीरं मैथुनं वेश्म च। कुरीरः मालाविशेषः कम्बलश्च / कुल बन्धुसंस्त्यानयोः / कुलीरः कर्कटः / कै शब्दे / कीरः शुकः काश्मीरकश्च / कशेर्मोऽन्तश्च // 420 // कश शब्दे इत्यस्मात् तालव्यान्तादीरः प्रत्ययो मश्चान्तः स्यात् / कश्मीरा जनपदः। वनिवपिभ्यां णित् // 421 // आभ्यां णिदीरः प्रत्ययः स्यात् / वन भक्तौ / वानीर: वेतसः / डुवपी बीजसन्ताने / वापीरः मेघः अमोघः निष्पत्तिः क्षेत्रं च। जम्बीराभीरगभीरगम्भीरकुम्भीरभडीरभण्डीरडिण्डीरकिर्मीरादयः॥४२२॥ एते ईरप्रत्ययान्ता निपात्यन्ते / जनेोऽन्तश्च / जम्बीरः वृक्षविशेषः। आमोतेर्भश्च / आभीरः शूद्रजातिः / ममेर्भः स्वरान्नस्तु वा / गभीरः अगाधः अचपलश्च / गम्भीरः स एव / स्कुम्भेः सौत्रात् सलोपश्च / कुम्भीरः जलचरः। भडुङ् परिभाषणे / अस्य नलुक् च वा / भडीरः भण्डीरश्च योद्धवचने / डीडो डित् द्वित्वं पूर्वस्य नोऽन्तश्च / डिण्डीर: फेनः। किरतेोऽन्तश्च / किर्मीरः कर्बुरः। आदिग्रहणात् तूणीरनासीरमन्दीरकरवीरादयो भवन्ति / वाश्यसिवासिमसिमथ्युन्दिमन्दिचतिचझ्यतिकचिकिबन्धिभ्य उरः॥४२३॥ एभ्य उरः प्रत्ययः स्यात् / वाशिच् शब्दे / वाशुरः शकुनिः गर्दभश्च / वाशुरा रात्रिः / असूच क्षेपणे / असुरः दानवः / वासण् उपसेवायाम् / वामुरा रात्रिः मसुरा च / मसैच परिमाणे / मसुरा पण्यस्त्री / ममुरं चर्मासनं धान्य 100