SearchBrowseAboutContactDonate
Page Preview
Page 804
Loading...
Download File
Download File
Page Text
________________ उणादिप्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 791 स्त्री / ग्रैचि गतौ / गूर्जरः सौराष्ट्रादिः / गूर्जरी स्त्री। __ अग्यङ्गिमदिमन्दिकडिकसिकासिमृजिकञ्जिकलिमलिकचिभ्यआरः // 405 / / एभ्य आरः प्रत्ययः स्यात् / अग कुटिलायां गतौ / अगारं वेश्म / अगु गतौ। अङ्गारः निर्वातज्वालो निर्वाणश्चोल्मकावयवः भूमिसुतश्च / मदैच हर्षे / मदारः पानशौण्डः वराहः हस्ती अलसश्च / मदुङ् स्तुत्यादी / मन्दारः वृक्षविशेषः। कडत् मदे / कडारः पिङ्गलः विषमदशनश्च / कस गतौ / कसारः हिंस्रः / कासृङ् शब्दकुत्सायाम् / कासारः पल्वलम् / मृजौक् शुद्धौ / मार्जारः विडालः / कञ्जिः सौत्रः / कञ्जारः कुशूलजातिः यूपः व्यञ्जनं च / कलि शब्दसंख्यानयोः। कलारः विषमरूपः / मलि धारणे / मलारः अलसः / मलमिवारा तोदोऽस्येति वा मलारः। कचि बन्धने / कचारः अपनेयः तृणबुसपांसुविकारः।। त्रः कादिः // 406 // तृ प्लवनतरणयोरित्यस्मात् ककारादिरारः प्रत्ययः स्यात् / तर्कारः वृक्षः। कृगो मादिश्च / / 407 // करोतेर्मकारादिः ककारादिश्चारः प्रत्ययः स्यात् / कारः लोहकारः / कर्कारः वृक्षः / तुषिकुठिभ्यां कित् // 408 // आभ्यां किदारः प्रत्ययः स्यात् / तुपंच तुष्टौ / तुषारः हिमम् / कुठिः सौत्रः / कुठारः परशुः / ___ कमेरत उच्च // 409 कमूङ् कान्तावित्यस्मादारः प्रत्ययोऽकारस्य चोकारः / कुमारः महासेन; अभ्रष्टः बालश्च / कनेः कोविदकर्बुदकाञ्चनाश्च // 410 // कनै दीप्तावित्यस्मादारः प्रत्ययोऽस्य च कोविद कर्बुद काञ्चन इत्यादेशाः स्युः। कोविदारः कर्बुदारः काश्च. नारश्च वृक्षविशेषाः। द्वारशृङ्गारशृङ्गारकल्हारकान्तारकेदारखारडादयः // 411 // एते आरपत्ययान्ता निपात्यन्ते / उम्भत पूरणे द्वादेशश्च / द्वारं द्वाः / श्रयतेस्तालव्यादिः शृङ्गश्च / शृङ्गारः रसविशेषः विदग्धता च / भृगो भृङ्ग च / भृङ्गारः हस्तिमुखाकारगलन्तिका। कलेहश्च स्वरात्परः / कहारः उत्पलविशेषः। कमेस्तोऽन्तो दीर्घश्च / कान्तारमरण्यम् / कदेः सौत्रस्यात एच / केदारः वमः। खनेर्डिच्च / खारी चतुर्दोणम् / खारडिति टकारो ङयर्थः। आदिग्रहणात् शिशुमारादयो भवन्ति / मदिमन्दिचन्दिपदिखदिसहिवहिकृमृभ्य इरः // 412 // एभ्य इरः
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy