SearchBrowseAboutContactDonate
Page Preview
Page 803
Loading...
Download File
Download File
Page Text
________________ सिद्धहैमबृहत्प्रक्रिया. [ कृदन्ते मृदश् लोदे / मृदरः व्याधिः अतिकायः क्षोदश्च / उन्दैष् क्लेदने / उदरं जठरं व्याधिश्च / पिठ हिंसासंक्लेशयोः / पिठरं भाण्डम् / कुरत् शब्दे / कुररः जलपक्षिजातिः / कुहणि विस्मापने / कुहरं गम्भीरगर्तः। शाखेरिदेतो चातः // 400 // शास्त्र व्याप्तावित्यस्मादरः प्रत्यय आकारस्य चेकारेकारौ स्याताम् / शिखरम् अग्रम् / शेखर आपोडः / शपेः फ् च // 401 // शपी आक्रोशे इत्यस्मादरः प्रत्ययः फकारश्चान्तादेशः। शफरः क्षुद्रमत्स्यः / दमेर्णिद्वा दश्च डः॥४०२॥ दमूच उपशमे इत्यस्मादरः प्रत्ययः स च णिद् वा दकारस्य च डकारः। डामरः भयानकः / डमरः स एव / जठरककरमकरशंकरकपरकूर्परतोमरपामरप्रामरमा रसगरनगरतगरोदरादरशुदरहदरकृकरकुकुन्दरगोवराम्बरमुखरखरडहरकुञ्जराजगरादयः।।४०३॥ एते किदरप्रत्ययान्ता निपात्यन्ते / जनेष्ठ च / जठरं कोष्ठः। क्रमेः क च। क्रकरः गौरतित्तिरिः। मधेर्नलोपश्च। मकरः ग्राहः। शंपूर्वात् किरतेर्डिच्च / शङ्करः रुद्रः। कृपेरुपान्त्यस्य उर् च वा / कपरं कपालम्। कूपरं कुफणी। ताम्यतेरत ओच / तोमरः आयुधम् / पातेोऽन्तश्च / पामरः ग्रामीणः। प्रपूर्वादमतेः प्रामरः ग्राम्यमन्दजातिः। प्रपूर्वादत्तेोऽन्तश्च / प्रामरः नरपशुः। सहिनश्योग च / सगरः द्वितीयश्चक्रवर्ती / नगरं पुरम् / तङ्गेलोपश्च / तगरः वृक्षविशेषः। ऊर्जः पराद् द्दणातेर्डित् जलुक् च / ऊर्जा वलेन दृणाति बिभेति ऊर्दरः दुर्बलः / अदु बन्धने नलुक् च / अदरं वक्षः वृक्षः संग्रामः चञ्चुसमूहः मातृवाहश्च / शश् हिंसायाम् दृश् विदारणे इत्यनयोईस्वत्वं दश्चान्तः / शुदरः सर्पः / दृदरं भयं विषं च / डुकंग करणे दोऽन्तश्च / कृदरः वृक्षः सर्वकर्मप्रवृत्तो दस्युजनः कुशूलश्च / कुपूर्वात् स्कुदुङ् आप्रवणे सलोपश्च / कुकुन्दरं श्रोणिकूपकः। गोपूर्वात् गो डित् रश्चादिः गोवरः करीपः। अमेोऽन्तश्च / अम्बरं वस्त्रम् आकाशं च / मुहेः ख च / मुखरः वाचालः / खनेडिच्च / खरः रासभः / दहेरादेडेश्च / डहरं हृत्कमलम् / कूज अव्यक्ते शब्दे इस्वः स्वरानोऽन्तश्च / कुञ्जरः हस्ती / अजेरगश्चान्तः वीभावाभावश्च / अजगरः शयुः / आदिग्रहणात् कोठराडङ्गरशाङ्गरपाण्डरवानरादयो भवन्ति / मुदिगरिभ्यां टिद्गजो चान्तौ // 404 // आभ्यां टिदरः प्रत्ययो गकारजकारौ च यथासंख्यमन्तौ स्याताम् / मुदि हर्षे / मुद्गरः प्रहरणविशेषः / मुद्गरी
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy