________________ उणादिप्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 789 नोऽन्तश्च / गुन्द्रा जलतृणविशेषः। राजेरजेर्वा किच्चेञ्चोपान्त्यस्य / रिजः नायकः। आदिग्रहणादन्येऽपि / ऋच्छिचटिवटिकुटिकठिवठिमव्यडिशीकृशीभृकदिवदिकन्दिमन्दिसुन्दिमन्थिमञ्जिपञ्जिपिञ्जिकमिसमिचमिवामिभ्रम्यमिदेविवासिकास्थतिजीविबबिकुशुदोररः // 397 // एभ्योऽरः प्रत्ययः स्यात् / ऋच्छत् इन्द्रियप्रलयमूर्तिभावयोः / ऋच्छरः बरावान्। ऋच्छरा वेश्या कुलटा खरा अङ्गुलिश्च / चटण भेदे / चटरः तस्करः। वट वेष्टने / वटरः मधुकण्डरा / कुटत् कौटिल्ये / कोटरं छिद्रम् / कठ कृच्छ्रजीवने / कठरः दरिद्रः। वठ स्थौल्ये / वठरः मूर्खः बृहद्देहश्च / मठ मदनिवासयोश्च / मठरः ऋषिः अज्ञानी गोत्रम् अलसश्च / अड उद्यमे / अडरः वृक्षः / शीकृङ् सेचने / शीकरः जललवसेकः / शीभृङ् कत्थने / शीभरः हस्तिहस्तमुक्तो जललवसेकः / कदिः सौत्रः / कदरः वृक्षविशेषः / बद स्थैर्ये / बदरी फलवृक्षः / कदुङ् वैक्लव्ये / कन्दरः गिरिगर्तः / मदुङ् स्तुत्यादौ / मन्दरः शैलः / सुन्दिः सौत्रः शोभायाम् / सुन्दरः मनोज्ञः / मन्थश् विलोडने / मन्थरः मन्दः खर्वश्च / मञ्जिपञ्जी सौत्रौ / मञ्जरी आम्रादिशाखा / गौरादित्वाद् डीः / पञ्जरः शुकाधवरोधसम / पिजुण हिंसाबलदाननिकेतनेषु। पिञ्जरः पिशिङ्गः। कमूङ् कान्तौ / कमरः मूर्खः कार्मुकं कोमलः चौरः कान्तश्च / षम वैक्लव्ये / समरः संग्रामः / चमू अदने / चमरः अरण्यपशुः / टुवम् उद्गिरणे / वमरः दुर्मेधाः / भ्रमृच अनवस्थाने / भ्रमरः पट्पदः। अम गतौ / अमरः सुरः / देवृङ् देवने / देवरः पत्यनुजः / वसं निवासे, णौ वासरः दिवसः कामः अग्निः प्राट् च / अन्ये वाशिच शब्दे इत्यस्मादपि तालव्यान्तादिच्छन्ति / वाशरः अग्निः मेघः दिवसश्च / कासङ् शब्दकुत्सायाम् / कासरः महिषः / ऋक् गतौ / अररः कपाटः बुधः भ्रमरः गृहं हरणं शलाका च / जीव प्राणधारणे / जीवरः दीर्घायुः / बर्व गतौ / बर्वरः म्लेच्छजातिः / बर्बरी कुञ्चिताः केशाः। कुंक् शब्दे / कवरः वर्णः। कवरी वेणिः। शुं गतौ / शबरः म्लेच्छजातिः। शव गतावित्यस्यान्ये / दुदंत उपतापे / दवरः गुणः / अवेर्ध च वा // 398 // अव रक्षणादावित्यस्मादरः प्रत्ययो धकारश्चान्तादेशो वा / अधरः हीनः उपरिभावस्य प्रतियोगी दन्तच्छदश्च / अवरः परमतियोगी। मृान्दिपिठिकुरिकुहिभ्यः कित् // 399 / / एभ्यो रः प्रत्ययः कित् स्यात् /