SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ उणादिपकरणम् ] सिद्धहैमबृहत्प्रक्रिया. 787 वदातः / उम्भत् पूरणे / उभ्रो मेघः पेलवश्च / दंशं दशने / दश्रो दन्तः सर्पश्च / चिंग्ट् चयने / चिरम् अशीघ्रम् / पिंग्ट् बन्धने / सिरा रुधिरस्रोतोवाहिनी नाडी। वहीं प्रापणे / उह: अनड्वान् / विसच् प्रेरणे। विस्रम् आमगन्धि। वसं निवासे / उसः रश्मिः। बाहुलकात् पत्वं न / उस्रा गौः। शुच शोके / शुक्रः ग्रहः मासः शुक्लश्च / शुक्रं रेतः / लत्वे शुक्लः वर्णः। कत्वं न्यङ्कादिखात् / षिधृ गत्याम् / सिध्रः साधुः वृक्षः मांसप्रभेदश्च / गृधृच् अभिकाङ्क्षायाम् / गृध्रः श्येनः लुब्धकः कङ्कश्च / त्रिइन्धैपि दीप्तौ / विपूर्वात्-वीध्रः अग्निः वायुः नभः निर्मलः पूर्णचन्द्रमण्डलम् / श्विताङ् वर्ण / श्वित्रं *वेतकुष्ठम् / वृतूङ् वर्तने / वृत्रः दानवः बलवान् रिपुश्च / वृत्रं पापम् / णींग प्रापणे / नीरं जलम् / शीङ् स्वप्ने / शीरः अजगरः / पुंग्ट् अभिषवे / सुरः देवः। सुरा मद्यम् / पूडौच पाणिप्रसवे / सूरः आदित्यः रश्मिश्च। इणधाग्भ्यां वा // 389 // आभ्यां रः प्रत्ययः स्यात् स च किद्वा / इंणक गतौ / इरा मदनीयपानविशेष: मेदिनी च / एरा एडका / डुधांगक धारणे च / धीरः सखवान् धृतिमांश्च / धारा जलयष्टिः खगावयवः अश्वगतिविशेषश्च / .. चुम्विकुम्बितुम्बेर्नलुक् च // 390 // एभ्यः किद्रः प्रत्ययः स्यात् नकारस्य चैषां लुक् / चुबु वक्त्रसंयोगे / चुनं वक्त्रम् / चुनः रश्मिः। कुबु आच्छादने। कुत्रं संकटं भग्नपृष्ठः फल्गु हस्ती चर्म गृहाच्छादनं च / तुबु अर्दने / तुजं कुटिलम् / भन्देर्वा // 391 / भदुङ् सुखकल्याणयोरित्यस्माद्रः प्रत्ययो नकारस्य च लुग्वा / भद्रं भन्द्रं च कल्याणं मुखं च / / चिजिशुसिमितम्यम्यर्देर्दीर्घश्च // 392 // एभ्यो रः प्रत्ययो दीर्घश्चैषां स्यात् / चिंगट चयने / चीरं जीर्ण वस्त्रं वल्कलं च / जिं अभिभवे / जीरः अजाजी अग्निः वायुः अश्वश्च / जीरम् अन्नम् / लत्वे-जीलः चर्मपुटः / शुं गतौ / शूरः विक्रान्तः / पिंगट बन्धने / सीरं हलम् / सीरा हलविलेखिता लेखा / डुमिंगट प्रक्षेपणे / मीरः समुद्रः / मीरं जलम् / मीरा मांस्पचनी देवसीमा च / तमूच काङ्क्षायाम् / ताम्रः वर्णः शुल्वं च / अम गतौ / आम्रः वृक्षः / अर्द गतियाचनयोः / आई सरसम् / चकिरामिविकसेरुच्चास्य / / 393 // चकिरमिभ्यां विपूर्वात् कसेरः प्रत्ययः स्यात् अकारस्य चैषामुकारः। चकि तृप्तिपतिघातयोः / चुक्रः अम्लो रसः बीज
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy