SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् सिद्धहैमबृहत्मक्रिया. 326 असदिवामन्यं पूर्वम् // 2 / 1 / 25 // आमंत्र्यते यत्तदामंत्र्यम् / तद्वाचि पदं युष्मदस्मद्भ्यां पूर्वमसदिवाविद्यमानमिव स्यात् / सति तस्मिन् यत्कार्य तन्न भवति, असति यत्तद् भवतीत्यर्थः / श्रमणा युष्मान् रक्षतु धर्मः। श्रमणा अस्मान् रक्षतु धर्मः / श्रमणा युष्मभ्यं दीयते / श्रमणा अस्मभ्यं दीयते / श्रमणौ आवां रक्षतु धर्मः / श्रमणौ युवाभ्यां दीयते आवाभ्यां दीयते / श्रमणौ युवयोः स्वमावयोः खम् / श्रमण खां रक्षतु तपः मां रक्षतु तपः / श्रमण तुभ्यं दीयते मह्यं दीयते / श्रमण तव शीलम् मम शीलम् / एष्वामन्त्र्यस्यासत्त्वाद् वस्नसादयो न भवन्ति / ग्रामाश्चैत्र ते स्वमथो इत्यादौ चैत्रपदस्यामन्त्र्यस्यासवाद् विकल्पः / इवकरणं किम् / श्रवणं यथा स्यात् / आमन्त्र्यमिति किम् / धर्मों वो रक्षतु / धर्मो नो रक्षतु / पूर्वमिति किम् / ' मयैतत्सर्वमाख्यातं युष्माकं मुनिपुंगवाः / परस्य ह्यसद्वत्त्वे पादादिलक्षणः प्रतिषेधो न स्यात् / व्यवहितेऽपि पूर्वशब्दो प्रथमान्ताद्वेति विकल्पो न भवति / 327 जस्विशेष्यं वामन्ये // 2 / 1 / 26 // तदतद्विषयं विशेष्यम् / तस्य व्यवच्छेदकं विशेषणम् / युष्मदस्मद्भ्यां पूर्वम् असन्तमामन्त्र्यं पदं विशेष्यमामन्त्र्ये पदे सामर्थ्यात्तद्विशेषणीभूते परेऽविद्यमानवद् वा स्यात् / पूर्वेण नित्यं प्राप्ते विकल्पः / जिनाः शरण्या युष्मान् शरणं प्रपद्ये / जिनाः शरण्या वः शरणं प्रपद्ये / जिनाः शरण्या अस्मान् रक्षत / जिनाः शरण्या। नो रक्षत। सिद्धाः शरण्या युष्मानथो शरणं प्रपद्ये / सिद्धाः शरण्या वोऽथो शरणं प्रपद्ये / सिद्धाः शरण्या अस्मानथो रक्षत / सिद्धाः शरण्या वोऽथो रक्षत / जसिति किम् / साधो सुविहित वोऽथो शरणं प्रपद्ये / साधो सुविहित नोऽथो रक्ष / विशेष्यमिति किम् / शरण्याः साधवो युष्मान् शरणं प्रपद्ये / शरण्याः साधवोऽस्मान् रक्षत / आमंत्र्य इति किम् / आचार्या युष्मान् शरण्याः शरणं प्रपद्ये / आमत्र्यं विशेषणं व्यवहितवान्न परमिति न भवति / सामर्थ्यात् तद्विशेषणभूत इति किम् / आचार्या उपाध्याया युष्मान् शरणं प्रपद्ये। 328 नान्यत् // 2 / 1 / 27 // युष्मदस्मद्भ्यां पूर्व जसन्तादन्यदामन्त्र्यं पदं
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy