SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ सिद्धहैमबृहत्पक्रिया. [व्यंजनान्तपुंल्लिङ्ग प्राप्नुवन्ति / इति स्म नः पिता कथयति / इति वः श्रेयसी ब्रवीमि / इति मे माताऽवोचत् / शालीनां ते ओदनं दास्यामि। अत्र हि युष्मदस्मदी पित्रादिभिथुक्ते न पित्रादियुक्तैरितिस्मादिभिरिति वस्नसादयो न स्युः / अतः पारंपर्थेणापि युक्तादेकवाक्यस्थात् पदात् परयोयुष्मदस्मदोवस्नसादयो भवन्त्वित्येकवाक्यग्रहणमर्थवत् / बहुत्व इति किम् / धर्मो युवां रक्षतु / धर्मस्त्वां रक्षतु / स्याघधिकारे विभक्तिग्रहणं युक्स्यादिवचननिवृत्त्यर्थम् , तेन ज्ञाने युवां तिष्ठतः, शीले आवां तिष्ठाव इत्यत्रोत्तरेण वाम्नावादेशौ न भवतः / 323 द्वित्वे वाम्नौ // 2 / 1 / 22 // पदात् परयोर्युष्मदस्मदो_िखविषयया युगविभक्त्या सह यथासंख्यं वाम्नावित्यादेशौ वा स्याताम् , तच्चेत् पदं युष्मदस्मदी चैकवाक्ये स्याताम् / धर्मो वां रक्षतु / धर्मो नौ रक्षतु / धर्मो युवां रक्षतु / धर्म आवां रक्षतु / शीलं वां दीयते / शीलं नौ दीयते / शीलं युवाभ्यां दीयते / शीलभावाभ्यां दीयते। ज्ञानं वां स्वम् / ज्ञानं नौ स्वम् / ज्ञानं युवयोः स्वम् / ज्ञानमावयोः स्वम् / युगविभक्त्येत्येव / ग्रामे युष्मत्पुत्रः / नगरेऽस्मत्पुत्रः। पदादित्येव / युवां धर्मो रक्षतु / आवां धर्मो रक्षतु / एकवाक्य इत्येव / ओदनं पचत युवयोर्भविष्यति आवयोर्भविष्यति / 324 डेङसा ते मे // 2 / 1 / 23 / ते मे इति लुप्तद्विवचनान्तं पदम् / पदात् परयोर्युष्मदस्मदोर्डेङस् इत्येताभ्यां सह ते मे इत्येतावादेशौ वा स्तः, एकवाक्ये / डेङसेत्येकवचनं स्थानिभ्यामादेशाभ्यां च यथासंख्यनिवृत्त्यर्थम् / धर्मस्ते दीयते / धर्मस्तुभ्यं दीयते / धर्मो मे दीयते / धर्मो मह्यं दीयते / शीलं ते स्वम् / शीलं तव स्वम् / शीलं मे स्वम् // शीलं मम स्वम् / एकवाक्य इत्येव / ओदनं पच तव भविष्यति मम भविष्यति / त्वां युवां युष्मान्वाऽतिक्रान्ताय अतितुभ्यम् / डेन्डसेति किम् / पटस्त्वया क्रियते / धर्मो मया क्रियते / कथं ' न मे श्रुता नापि च दृष्टपूर्वी ' / न मे-न मयेति ह्यत्रार्थः। असाधुरेवायम् / स्यादिपतिरूपकमव्ययं वा। 325 अमा त्वा मा / / 2 / 1 / 24 // पदात् परयोयुष्मदस्मदोदितीथैकवचनेन सह खा मा इत्येतावादेशौ वा स्याताम् , एकवाक्ये / धर्मस्त्वा रक्षतु / धर्मो मा रक्षतु / धर्मस्त्वां रक्षतु / धर्मो मां रक्षतु / पदादित्येव / लामीक्षते / मामीक्षते / एकवाक्य इत्येव / अतिखां पश्यतु / अतिमां पश्यतु /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy