SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. अत्यावान् / अतियुवया / अत्यावया। अतियुवाभ्याम् 3 / अत्यावाभ्याम् 3 / अतियुवाभिः / अत्यावाभिः / अतितुभ्यम् / अतिमह्यम् / अतियुवभ्यम् / अत्यावभ्यम् / उसिभ्यसोः। अतियुवत् 2 / अत्यावत् 2 / अतितव / अतिमम / ओसि। अतियुवयोः 2 / अत्यावयोः 2 / अतियुवाकम् / अत्यावाकम् / अतियुवयि / अत्यावयि / अतियुवासु / अत्यावासु / अथ च युष्मान् अस्मान् वा अतिक्रान्त इति विग्रहे तु समासार्थस्य द्वचेकसंख्यत्वेऽपि समस्यमानयुष्मदस्मदोर्ववर्थत्वेन न त्वमौ न च युवावादेशौ / सिजस्ङे ङस्सु तु खमहमादयो भवन्त्येव / अतिखम् / अत्यहम् / अतियुष्माम् 3 / अत्यस्माम् 3 / अतियूयम् / अतिवयम् / अतियुष्मान् / अत्यस्मान् / अतियुष्मया। अत्यस्मया / अतियुष्माभ्याम् 3 / अत्यस्माभ्याम् ३।अतियुष्माभिः / अत्यस्माभिः। अतितुभ्यम् / अतिमह्यम् / अतियुष्मभ्यम् / अत्यस्मभ्यम् / ङसिभ्यसोः। अतियुष्मत् 2 / अत्यस्मत् 2 / अतितव / अतिमम / ओसि / अतियुष्मयोः 2 / अत्यस्मयोः 2 / अतियुष्माकम् / अत्यस्माकम् / अतियुष्मयि / अत्यस्मयि / अतियुष्मासु / अत्यस्मासु / अथो युष्मदस्मदोरादेशविशेषा उच्यन्ते / ___322 पदाधुग्विभक्त्यैकवाक्ये वस्नसौ बहुत्वे // 2 // 1 // 21 // द्वितीया चतुर्थी षष्ठी च युग्विभक्तिः / तया बहुखविषयया सह पदात् परयोयुष्मदस्मदोर्यथासंख्यं वस्नस् इत्येतावादेशौ स्याताम् , तच्चेत् पदं युष्मदस्मदी चैकवाक्ये स्याताम् / अन्वादेशे नित्यं विधास्यमानखादिह विकल्पो लभ्यते / एवमुत्तरसूत्रत्रयेऽपि / धर्मो वो रक्षतु / धर्मो नो रक्षतु / धर्मो युष्मान् रक्षतु / धर्मोऽस्मान् रक्षतु / तपो वो दीयते / तपो नो दीयते / तपो युष्मभ्यं दीयते / तपोऽस्मभ्यं दीयते / शीलं वः स्वम् / शीलं नः स्वम् / शीलं युष्माकं स्वम् / शीलमस्माकं स्वम् / पदादिति किम् ।युष्मान् धर्मो रक्षतु / अस्मान् धर्मो रक्षतु / युग्विभक्त्येति किम् / ज्ञाने ययं तिष्ठत / शीले वयं स्थास्यामः / एकवाक्य इति किम् / एकस्मिन् पदे निमित्तनिमित्तिनो वे मा भूत् / अतियुष्मान् पश्यति। अत्यस्मान् पश्यति / वाक्यान्तरे च मा भूत् / ओदनं पचत युष्माकं भविष्यति / पटं वयत अस्माकं भविष्यति / ननु च वाक्यान्तरस्थात् परयोयुष्मदस्मदोः सामर्थ्याभावादेव वस्नसादयो न भविष्यन्ति, किमेकवाक्यग्रहणेन / नैवं शंक्यम् / १युक्तयुक्तादपि पदादसमर्थवान 1 युक्तेन युष्मदस्मत्संबद्धेन पित्रादिना यद् युक्तमितिस्मेत्यादि तस्मादित्यर्थः।
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy