SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ सिद्धहैमबृहत्मक्रिया [व्यंजनान्तपुंल्लिङ्ग विशेष्यमामन्त्र्ये पदे तद्विशेषणभूते परेऽसदिव न स्यात् / साधो सुविहित खा शरणं प्रपद्ये / साधू सुविहितौ वां शरणं प्रपद्ये / साधो सुविहित मा रक्ष / साधू सुविहितौ नौ रक्षतम् / साधो सुविहित मा रक्ष / साध सुविहितौ नौ रक्षतम् / साधो सुविहित ते ज्ञानं दीयते, मे ज्ञानं दीयताम् / साध सुविहितौ वां ज्ञानं दीयते, नौ ज्ञानं दीयताम् / साधो सुविहित ते शीलं स्वं मे शीलं स्वम् / साधू सुविहितौ वां शीलं स्वम् , नौ शीलं स्वम् / अत्र परस्य ' असदिवामन्त्र्यं पूर्वम् ' इत्यसत्त्वेऽपि पूर्वविशेष्यपदाश्रया युष्मदस्मदादेशा भवन्ति / विशेष्यमित्येव / सुविहित साधो तव शीलम् , मम शीलम् / ___329 पादाद्योः // 2 / 1 / 28 // नियतपरिमाणमात्राक्षरपिण्डः पादः। पदाद परयोर्युष्मदस्मदोर्यदुक्तं वस्नसादि तत् पादस्यादिभूतयोर्न स्यात् / “वीरो विश्वेश्वरो देवो युष्माकं कुलदेवता // स एव नाथो भगवानस्माकं पापनाशनः" // पादाद्योरिति द्विवचनं युष्मदस्मदोरभिसंबंधार्थम् / पादादाविति ह्युच्यमाने आमन्त्र्यमभिसंबंध्येत / पादाद्योरिति किम् / “पान्तु वो देशनाकाले जैनेन्द्रा दशनांशवः / भवकूपपतज्जन्तुजातोद्धरणरज्जवः" // 330 चाहहवैवयोगे // 2 / 1 / 29 // च अह ह वा एव इत्येतैर्योगे संबंधे पदात परयोयुष्मदस्मदोर्यदुक्तं वस्नसादि तन्न स्यात् / ज्ञानं युष्माश्च रक्षतु, अस्मॉश्च रक्षतु / ज्ञानं युष्मानह रक्षतु, अस्मानह रक्षतु / ज्ञानं युष्मान् ह रक्षतु, अस्मान् ह रक्षतु / ज्ञानं युष्मान् वारक्षतु, अस्मान् वा रक्षतु / ज्ञानं युष्मानेव रक्षतु, अस्मानेव रक्षतु / ज्ञानं युष्मभ्यं च दीयते, अस्मभ्यं च दीयते / ज्ञानं युष्माकं च स्वम् , अस्माकं च स्वम् / ज्ञानं युवां च रक्षतु, ज्ञानमावां च रक्षतु / ज्ञानं युवाभ्यां च दीयते, आवाभ्यां च दीयते / ज्ञानं युवयोश्च स्वम् , आवयोश्च स्वम् / ज्ञानं खां च रक्षतु, मां च रक्षतु / ज्ञानं तुभ्यं च दीयते, मह्यं च दीयते / ज्ञानं तव च स्वम् , मम च स्वम् / योगग्रहणं किम् / ज्ञानं च शीलं च वो रक्षतु, नो रक्षतु / ज्ञानं च शीलं च वां दीयते, नौ दीयते / ज्ञानं च शीलं च ते स्वम् , मे स्वम् / नैतेषु चशब्देन युष्मदस्मदोर्योगोऽपि तु ज्ञानशीलयोः / ' चाहहवैवैः / इत्येव सिद्धे योगग्रहणं साक्षाद् योगपतिपत्त्यर्थम् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy