________________ उणादिप्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 775 कृशृसभ्य ऊर् चान्तस्य // 298 // एभ्यः पः प्रत्ययोऽन्तस्य च ऊः / कृत विक्षेपे / कूर्प भ्रूमध्यम् / शृश् हिंसायाम् / शूर्पः धान्यादिनिष्पवनभाण्डं संख्या च / सूं गतौ / सूर्पः भुजंगमः मत्स्यजातिश्च / शदिवाधिखनिहनेः ष च // 299 // एभ्यः पः प्रत्ययः पश्चान्तादेशः / शल शातने / शष्पं बालतृणम् / शष हिंसायामित्यस्य वा रूपम् / बाधृङ् रोटने। वाष्पः अश्रु धूमाभासं च मुखपानीयादौ / खनूग अवदारणे / खष्पः बलात्कारः दुर्मेधाः कूपश्च / खष्पं खलीनं जनपदविशेषः अङ्गारश्च / हनंक हिंसागत्योः / हष्पः प्रावरणजातिः। पम्पाशिल्पादयः॥३००। पम्पादयः शब्दाः पप्रत्ययान्ता निपात्यन्ते। पांक रक्षणे मोऽन्तो इस्वश्च / पम्पा पुष्करिणी। शीलयतेः शलतेः शेतेर्वा शिलादेशश्च / शिल्पं विज्ञानम् / आदिग्रहणादन्येऽपि / क्षुचुपिपूभ्यः कित्॥३०१॥ एभ्यः कित् पः प्रत्ययः स्यात् / टुक्षुक् शब्दे / क्षुपः गुच्छः। चुप मन्दायां गतौ / चुप्पं मन्दगमनम् / पूगश् पवने / पूपः पिष्टमयः। नियो वा // 302 // णींग पापणे इत्यस्मात् पः प्रत्ययः स्यात् स च किद्वा। नीपः वृक्षविशेषः ( कदम्बः) / नेपः नयः पुरोहितः वृक्षः भृतकश्च / नेपमुदकं यानं च। ___उभ्यवेल्क् च // 303 // आभ्यां कित् पः प्रत्ययो लुक् चान्तस्य / उभत् पूरणे / अव रक्षणादौ / उप अप च अव्यये। दलिवलितलिखजिध्वजिकचिभ्योऽपः // 304 // एभ्योऽपः प्रत्ययः स्यात् / दल विशरणे / दलपः प्रहरणं रणमुखम् विदलं दलविशेषश्च / दलपं व्रणमुखत्राणम् / वलि संवरणे / वलपः कर्णिका / तलण प्रतिष्ठायाम् / तलपः हस्तमहारः। खज मन्थे / खजपः मन्थः / खजपं दधि घृतम् उदकं च / ध्वज गतौ / ध्वजपः ध्वजः / कचि बन्धने / कचपः शाकपर्ण बन्धश्च / भुजिकुतिकुटिविटिकुणिकुष्युषिभ्यः कित् / 305 / / एभ्यः किदपः प्रत्ययः स्यात् / भुजंप पालनाभ्यवहारयोः / भुजपः राजा यजमानपालनादमिश्च / कुतिः सौत्रः / कुतपः छागलोम्नां कम्बलः आस्तरणं श्राद्धकालश्च / कुटत् कौटिल्ये। कुटपः प्रस्थचतुर्भागः नीडं च शकुनीनाम् / विट् शब्दे / विटपः शाखा / कुणत् शब्दोपकरणयोः। कुणपः मृतकं कुषितं शब्दार्थसारूप्यं च / कुषश् निष्कर्षे /