________________ सिद्धहैमबृहत्मक्रिया. [कृदन्ते कुषपः विन्ध्यः संदंशश्च / उधू दाहे / उषपः दाहः सूर्यः वन्हिश्च / शंसे; श इच्चातः // 306 // शंम् स्तुतौ चेत्यस्मादपः प्रत्ययस्तालव्यः शकारोऽन्तादेशोऽकारस्य चेकारः / शिशपाः वृक्षविशेषः। विष्टपोलपवातपादयः // 307 // विष्टपादयः शब्दाः किदपप्रत्ययान्ता निपात्यन्ते / विषेस्तोऽन्तश्च / विष्टपं जगत् सुकृतिनां स्थानं च / वलेरुल च / उलपं पर्वततृणं पङ्कजं जलं च / उलपः ऋषिः। वातेस्तोऽन्तश्च / वातपः ऋषिः। आदिग्रहणात् खरपादयो भवन्ति / कलेरापः // 308 // कलि शब्दसंख्यानयोरित्यस्मादापः प्रत्ययः स्यात् / कलापः काश्ची समूहः शिखण्डश्च / विशरिपक् // 309 // विशंत् प्रवेशने इत्यस्मादिपक् प्रत्ययः स्यात् / विशिपः राशिः। विशिपं तृणं वेश्म आसनं पद्मं च / दलेरीपो दिल् च // 310 // दल विशरणे इत्यस्मादीपः प्रत्ययः स्यात् दिल चास्यादेशः / दिलीपः राजा / __ उडेरुपक् // 311 // उड् संघाते इत्यस्मात् सौत्रादुपक् प्रत्ययः स्यात् / उडुपः प्रवः। जपादिनाद् वत्वे उड्डवः। अश ऊपः पश्च // 312 // अशौटि व्याप्तावित्यस्मादूपः प्रत्ययः पश्चान्तादेशः। अपूपः पक्कानविशेषः। सर्तेः षपः // 313 // सं गतावित्यस्मात् षपः प्रत्ययः स्यात् / सर्षपः रक्षोघ्नं द्रव्यं शाकं च। रीशीभ्यां फः // 314 // आभ्यां फः प्रत्ययः स्यात् / रीच् श्रवणे। रेफः कुत्सितः / शीफू स्वप्ने / शेफः मेढः / कलिगलेरस्योच // 315 // आभ्यां फः प्रत्ययोऽस्य चोकारः / कलि शब्दसंख्यानयोः / गल अदने / कुल्फ गुल्फः जवांघ्रिसन्धिः / गुल्फः पदोपरिग्रन्थिः। शफकफशिफाशोफादयः // 316 // शफादयः शब्दाः फप्रत्ययान्ता निपात्यन्ते / श्यतेः कायतेश्च इस्वश्च / शफः खुरः प्रियंवदश्च / कफः श्लेष्मा / श्यतेरिखमोत्वं च / शिफा वृक्षजटा। शोफः श्वयथुः खुरश्च / आदिशब्दात् रिफानफामुनफादयो भवन्ति / वलिनितनिभ्यां कः // 317 // वलि संवरणे निपूर्वाञ्च तनूयी विस्तारे