________________ 773 उणादिप्रकरणम् ] सिद्धहैमबृहत्यक्रिया. श्यङ् गतौ। श्येनः पक्षी अभिचारयज्ञश्च / कठ कृच्छ्रजीवने। कठिनममृदु / खल संचये च / खलिनम् अश्वमुखसंयमनम् / णल गन्धे / नलिनं पद्मम् / अव रक्षणादौ / अविनं जलं मृगः नाशः अग्निः राजा अध्वर्युः विधानं गुप्तिश्च / कुडुङ् दाहे / कुण्डिनः ऋषिः / कुण्डिनं नगरम् / ____ वृजितुहिपुलिपुटिभ्यः कित् // 283 // एभ्यः किदिनः प्रत्ययः स्यात् / जैकि वर्जने / जिनं पापं कुटिलं च / तुह अर्दने। तुहिनं हिममन्धकारश्च / पुल महत्त्वे / पुटत् संश्लेषणे / पुलिनं पुटिनं च नदीतीरं वालुकासंघातश्च / विपिनाजिनादयः // 284 // विपिनादयः शब्दाः किदिनप्रत्ययान्ता निपात्यन्ते / टुवपी बीजसन्ताने टुवेङ् चलने इत्यस्य वा इच्चोपान्त्यस्य / विपिनं गहनम् अब्जं जलदुर्ग च / अज क्षेपणे च / अस्य वीभावाभावश्च / अजिनं चर्म / आदिग्रहणादन्येऽपि / महर्णिद्वा // 285 // मह पूजायामित्यस्मादिनः प्रत्ययः स च णिद्वा स्यात् / माहिनं राज्यं बलं च / महिनं राज्यं शयनं च / महिनः माहात्म्यवान् / खलिहिसिभ्यामीनः // 286 / / आभ्यामीनः प्रत्ययः स्यात् / खल संचये च / खलीनं कवियम् / हिसुप् हिंसायाम् / हिंसीनः श्वापदः / पठेर्णित् // 287 // पठ व्यक्तायां वाचीत्यस्मात् णिदीनः प्रत्ययः स्यात् / पाठीनः मत्स्यः / ____ यम्यजिशक्यार्जशीयजितृभ्य उनः ॥२८८॥एभ्यः उनः प्रत्ययः स्यात् / यमूं उपरमे / यमुना नदी / अज क्षेपणे च / वयुनं विज्ञानम् अङ्गं च / वयुनः विद्वान् चन्द्रः यज्ञश्च / शक्लंट् शक्तौ / शकुनः पक्षी / अर्ज अर्जने / अर्जुनः ककुभः वृक्षविशेषः पार्थः श्वेतवर्णः श्वेताश्वः कार्तवीर्यश्च / अर्जुनी गौः / अर्जुनं तृणं *वेतसुवर्ण च / शी स्वप्ने / शयुनः अजगरः / यजी देवपूजादौ / यजुना क्रतुद्रव्यम् / तृ प्लवनतरणयोः। तरुणः समर्थः युवा वायुश्च / ऋफिडादिखाल्लत्वे तलुनः। लषेः श च // 289 // लपी कान्तावित्यस्मादुनः प्रत्ययः तालव्यः शकारशान्तादेशः। लशुनं कन्दजातिः। पिशिमिथिक्षुधिभ्यः कित् // 290 // एभ्यः किदुनः प्रत्ययः स्यात् / पिशत् अवयवे / पिशुनः खलः। पिशुनं मैत्रीभेदकं वचनम् / मिश्रृङ् मेधाहिंसयोः।