SearchBrowseAboutContactDonate
Page Preview
Page 784
Loading...
Download File
Download File
Page Text
________________ उणादिप्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. 771 जिह्वा / रुचि अभिप्रीत्यां च / रोचना गोपित्तम् / रोचनः चन्द्रः। विपूर्वाद् रोचतेः विरोचनः अग्निः मूर्यः इन्दुः दानवश्च / जिं अभिभवे / जयनम् ऊर्णापटः / टुमस्जोत् शुद्धौ / मज्जनं स्नानं तोयं च / देतृङ् देवने / देवनः अक्षः कितवश्च / स्यन्दौङ स्रवणे। स्यन्दनः रथः / चदु दीप्त्याह्नादनयोः / चन्दनं गन्धद्रव्यम् / मदुइ स्तुत्यादौ / मन्दनं स्तोत्रम् / मडु भूषायाम् / मण्डनमलंकारः / मदैच हर्षे / मदनः वृक्षः कामः मधूच्छिच / दहं भस्मीकरणे / दहनः अग्निः। वहीं प्रापणे / वहनं नौः। आदिग्रहणात् पचेः पचनः अग्निः। पुनातेः पवनः वायुः। बिभतेः भरणं साधनम् / नयतेनयनं नेत्रम् / धुतेः द्योतनः आदित्यः / रचेः रचना-चैचिव्यम् / गृजेः गृञ्जनम् अभक्ष्यद्रव्यविशेषः। प्रस्कन्दनः प्रपतनः इत्यादयो भवन्ति / . अशो रश्चादौ // 270 // अशौटि व्याप्तावित्यस्मात् अनः प्रत्ययः स्यात् आदौ रेफश्च / रशना मेखला / राशिमेके प्रकृतिमुपदिशन्ति / सा च राशिरशनारश्मि इत्यत्र प्रयुज्यते इत्याहुः / उन्देर्नलुक् च // 271 / उन्दैप् क्लेदने इत्यस्मात् अनः प्रत्ययो नलोपश्च / ओदनः भक्तम् / - हनेर्घतजघौ च // 272 // हनं हिंसागत्योरित्यस्मादनः प्रत्ययो घतजघावित्यादेशौ चास्य स्याताम् / घतनः रङ्गोपजीवी पापकर्मा निर्लजश्च / जघनं श्रोणिः। . तुदादिवृजिरञ्जिनिधाभ्यः कित् // 273 // एभ्यः किदनः प्रत्ययः स्यात् / तुदीत् व्यथने / तुदनः / लिपीत् प्रेरणे / क्षिपणः। सुरत् ऐश्वर्यदीप्त्योः / सुरणः। बुधिंच वोधने। बुधनः। पिवूच् उतौ। सिवनः। एषां यथासंभव कारकमुच्यते। लबुङ् अवस्रंसने / लम्बनः शकुनिः। जैकि वर्जने / जिनमन्तरिक्षं निवारणं मुण्डनं च / रञ्जों रागे / रजनं हरिद्रा / महारजनं कुसुम्भम् / रजनः रङ्गविशेषः / डुधांगक धारणे च / निधनमवसानम् / ___ सूधूभूभ्रस्जिभ्यो वा // 274 // एभ्योऽनः प्रत्ययः स्यात् स च किद्वा / पूत् प्रेरणे / सुवनः अङ्कुरः आदित्यः प्रादुर्भावश्च / सुवनं चन्द्रप्रभा / सवनं यज्ञ: पूर्वाह्नापराह्नमध्याह्नकालश्च / त्रिषवणम् / धूत् विधूनने / धुवनः धूमः वायुः अग्निश्च / धुवनम् एधः / भू सत्तायाम् / भुवनं जगत् / भवनं गृहम् / भ्रस्नीत् पाके / भृजनम् अन्तरिक्षम् अम्बरीषः पाकश्च / भ्रजनः पावकः / विदनगगनगहनादयः // 275 // एते किदनमत्ययान्ता निपात्यन्ते / विदु
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy