SearchBrowseAboutContactDonate
Page Preview
Page 782
Loading...
Download File
Download File
Page Text
________________ 769 उणादिप्रकरणम् ] सिद्धहैमबृहत्पक्रिया. __मुचेडुकुन्दकुकुन्दौ // 250 // मुच्छंती मोक्षणे इत्यस्मात् डित् उकुन्दः किदुकुन्दश्च प्रत्ययौ स्याताम् / मुकुन्दः विष्णुः। मुचुकुन्दः राजा वृक्षविशेषश्च / स्कन्द्यमिभ्यां धः // 251 // आभ्यां धः प्रत्ययः स्यात् / स्कन्दं गतिशोघणयोः। स्कन्धः बाहुमूर्धा ककुदं विभागश्च / बाहुलकाद् दस्य लुक् / अम गतौ / अन्धः चक्षुर्विकलः। नेः स्यतेरधक् // 252 // निपूर्वात् षोंच् अन्तकर्मणि इत्यस्मादधक् प्रत्ययः स्यात् / निषधः पर्वतः / निषधाः जनपदः / मङ्गे लुक् च // 253 // मगु गतावित्यस्मादधक् प्रत्ययो नकारस्य च लुक् स्यात् / मगधाः जनपदः। आरगेर्वधः // 254 // आपूर्वाद् रगे शङ्कायामित्यस्माद् वधः प्रत्ययः स्यात् / आरग्वधः वृक्षजातिः। पराच्छो डित् // 255 / / परपूर्वात् शृश् हिंसायामित्यस्मात् दित् वधः प्रत्ययः स्यात् / परश्वध आयुधजातिः। इषेरुधक् // 256 / इषत् इच्छायामित्यस्मादुधक् प्रत्ययः स्यात् / इषुधः यात्रा। कोरन्धः // 257 // कुंङ् शब्दे इत्यस्मादन्धः प्रत्ययः स्यात् / कवन्धः छिन्नमूर्धा देहः। प्याधापन्यनिस्वादिस्वपिवस्यज्यतिसिविभ्यो नः // 258 // एभ्यो नः प्रत्ययः स्यात् / प्यैङ् वृद्धौ / प्यानः समुद्रः चन्द्रश्च / डुधांगक धारणे च / धाना भृष्टो यवः अकुरश्च | पनि स्तुतौ / पन्नं नीचैःकरणम् , सन्नं जिह्वा च / अनक् प्राणने / अन्नं भक्तम् आचारश्च / ष्वदि आस्वादने। स्वन्नं रुचितम् / विष्वपंक शये। स्वमः मनोविकारः निद्रा च / वसं निवासे / वस्नं वासः मूल्यं मेदम् आगमश्च / अज क्षेपणे च / वेनः प्रजापतिः ध्यानी राजा वायुः यज्ञः प्राज्ञः मूर्खश्च / अत सातत्यगमने। अत्नः आत्मा वायुः मेघः प्रजापतिश्च / षिवूच् उतौ / स्योनं सुखं तन्तुवायसूत्रसंतानः समुद्रः सूर्यः रश्मिः आस्तरणं च / षसेर्णित् // 259 / / षसक् स्वप्ने इत्यस्मात् णित् नः प्रत्ययः स्यात् / सास्ना गोकण्ठावलम्बि चर्म निद्रा च / रसेर्वा / / 260 // रस शब्दे इत्यस्मान्नः प्रत्ययो णिद्वा स्यात् / रास्ना धेनुः
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy