SearchBrowseAboutContactDonate
Page Preview
Page 781
Loading...
Download File
Download File
Page Text
________________ 768 सिद्धहैमबृहत्पक्रिया. [ कृदन्ते पुष्पजातिः / पुंग्ट् अभिषवे / सुन्दः दानवः / - कुसेरिदेदौ / / 241 // कुस्न् श्लेषे इत्यस्मात् इद ईद इत्येतौ कितौ प्रत्ययौ स्याताम् / कुसिदम् ऋणम् / कुसीदं वृद्धिजीविका / इङ्ग्यबिभ्यामुदः // 242 // आभ्यामुदः प्रत्ययः स्यात् / इगु गतौ / इङ्गुदः वृक्षजातिः / अर्ब गतौ / अर्बुदः पर्वतः अक्षिव्याधिः संख्याविशेषश्च / निपूर्वात् न्यर्बुदं संख्याविशेषः / ____ककोर्णद्वा // 243 // ककि लौल्ये इत्यस्मादुदः प्रत्ययः स च णिद्वा / काकुदं तालु / ककुदं स्कन्धः। ___ कुमुद्बुद्बुदादयः // 244 // एते उदमत्ययान्ता निपात्यन्ते / कमेः कुम् च / कुमुदं कैरवम् / बुन्देः कित् बोऽन्तश्च / बुबुदः जलस्फोटः। बुबुदं नेत्रजो व्याधिः / आदिग्रहणात् दुहीक क्षरणे, प्रत्ययादेरत्वे दोहदः अभिलापविशेषः / एवमन्येऽपि। ककिमकिभ्यामन्दः // 245 // आभ्यामन्दः प्रत्ययः स्यात् / ककि लौल्ये। मकिः सौत्रः / ककन्दः मकन्दश्च राजानौ यकाभ्यां नित्ता काकन्दी माकन्दी चनगरी। कल्यलिपुलिकुरिकुणिमणिभ्य इन्दक् // 246 // एभ्य इन्दक् प्रत्ययः स्यात् / कलि शब्दसंख्यानयोः। कलिन्दः पर्वतः, यतो यमुना प्रभवति / अली भूषणादौ / अलिन्दः प्रघाणः भाजनं स्थानं च / पुल महत्त्वे / पुलिन्दः शबरः। कुरत् शब्दे / कुरिन्दः धान्यमलहरणोपकरणम् , तेजनोपकरणं च / कुणत् शब्दोपकरणयोः / कुणिन्दः म्लेच्छः शब्द उपकरणं च / मण शब्दे। मणिन्दः अश्वबल्लवः। कुपेर्व च वा // 247 // कुपच् क्रोधे इत्यस्मादिन्दक् प्रत्ययो वश्चान्तादेशो वा / कुपिन्दः, कुविन्दः तन्तुवायः। पृपलिभ्यां णित् // 248 // आभ्यां णिदिन्दक् प्रत्ययः स्यात् / पृश् पालनपूरणयोः / पल गतौ / पारिन्दः / पालिन्दः / द्वावपि वृक्षगाथको / पारिन्दो मुख्यः पूज्यश्च / पालिन्दो नृपतिः / रक्षकश्चेत्येके / ___ यमेरुन्दः // 249 // यम उपरमे इत्यस्मादुन्दः प्रत्ययः स्यात् / यमुन्दः क्षत्रियविशेषः।
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy