________________ उणादिप्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 767 लोकपालश्च / शीङ्क् स्वप्ने / शयथः अजगरः प्रदोषः मत्स्यः वराहश्च / शपी आक्रोशे / शपथः प्रत्ययकरणम् आक्रोशश्च / शम्च् उपशमे / शमथः समाधिः आश्रमपदं च / गम्लं गतौ / गमथः पन्थाः पथिकश्च / रमि क्रीडायाम् / रमथः पहर्षः / वदुङ् स्तुत्यभिवादनयोः / वन्दथः स्तोता स्तुत्यश्च / वञ्चू गतौ / वञ्चथः अध्वा कोकिलः काकः दम्भश्च / जीव प्राणधारणे / जीवथः अर्थवान् जलम् अन्नं वायुः मयूरः कूर्मः धार्मिकश्च / अन्क् माणने / पाणथः बलवान् ईश्वरः प्रजापतिश्च / उपसर्गाद वसः // 233 // उपसर्गात् परस्मात् वसं निवास इत्यस्मादथः प्रत्ययः स्यात् / आवसथः गृहम् / उपवसथः उपवासः / संवसथः संवासः / सुवसथ: सुवासः / निवसथः निवासः।। विदिभिदिदिवहिभ्यः कित् // 234 // एभ्यः किदथः प्रत्ययः स्यात् / विदंक् ज्ञाने। विदथः ज्ञानी यज्ञः अध्वर्युः संग्रामश्च / भिदंपी विदारणे / भिदथः शरः / रुदृक् अश्रुविमोचने / रुदथः बालः असत्त्वः श्वा च / द्रुहौच जिघांसायाम्। दूहथः शत्रुः। रोर्वा // 235 // रुक् शब्दे इत्यस्मादयः प्रत्ययः स्यात् स च किद्वा / रुवथः शकुनिः शिशुश्च / रवथः आक्रन्दः शब्दकारश्च / वृभ्यामूथः // 236 // आभ्यामूथा प्रत्ययः स्यात् / जृपच जरसि / जरूथः शरीरम् अग्रमांसम् अग्निः संवत्सरः मार्गः कल्मषं च / वृश वरणे / वरूथः बर्म सेनाङ्गं बलसंघातश्च / शाशपिमनिकनिम्घो दः // 237 // एभ्यो दः प्रत्ययः स्यात् / शोंच तक्षणे / शादः कर्दमः तरुणतृणं मृदुः बन्धः सुवर्ण च / शपी आक्रोशे / शब्दः श्रोत्रग्राह्योऽर्थः। मनिच ज्ञाने / मन्दः अलसः बुद्धिहीनश्च / कनै दीप्त्यादिषु / कन्दः मूलम् / आपोऽप् च // 238 // आप्लंट् व्याप्तावित्यस्मादः प्रत्ययः स्यात् अस्य चाप इत्ययमादेशश्च / अब्दं वर्षम् / गोः कित् // 239 // गुंत पुरीपोत्सर्गे इत्यस्मात् कित् दः प्रत्ययः स्यात् / गुदम् अपानम् / वृतुकुसुभ्यो नोऽन्तश्च // 240 // एभ्यः कित् दः प्रत्ययो नकारश्चान्तादेशः। गट वरणे / वृन्दं समूहः / तुंक् वृत्त्यादिषु / तुन्दं जठरम् / कुंङ् शब्दे / कुन्दः