________________ उणादिप्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 765 जीवतात् जीवन्तः आयुष्मान् / जीवन्ती शाकः / अनक् प्राणने / प्राण्यात् प्राणन्तः वायुः रसायनं च / प्राणन्ती स्त्री / तृजिभूवदिवहिवसिभास्यदिसाधिमदिगडिगण्डिनन्दिरेविभ्यः।। // 221 // एभ्यष्टिदन्तः प्रत्ययः स्यात् / आशिषीत्येके / तू प्लवनतरणयोः। तरन्तः आदित्यः भेकश्च / तरन्ती स्त्री। जिं अभिभवे / जयन्तः रथरेणुः ध्वज इन्द्रपुत्रः जम्बूद्वीपपश्चिमद्वारं पश्चिमानुत्तरविमानं च / जयन्ती उदयनपितृष्वसा / भू सत्तायाम् / भवन्तः कालः / भवन्ती / वद व्यक्तायां वाचि / वदन्तः वदन्ती / वहीं प्रापणे / वहन्तः रथः अनड्वान् रथरेणुः वायुश्च / वहन्ती / वसं निवासे / वसन्तः ऋतुः। भासि दीप्तौ / भासन्तः सूर्यः। भासन्ती / ण्यन्तोऽपि / भासयन्तः सूर्यः / अदंक भक्षणे / अदन्तः। अदन्ती। साधंट संसिद्धौ / साधन्तः भिक्षुः / ण्यतोऽपि / साधयन्तः भिक्षः / साधयन्ती / मदेच हर्षे / णौ-मदयन्तः। मदयन्ती पुष्पगुल्मजातिः / गड सेचने / गडन्तः जलदः / ण्यन्तोऽपि / गडयन्तः / गडयन्ती। गडु वदनैकदेशे / ण्यन्तः-गण्डयन्तः मेषः / मडु भूषायाम् / ण्यन्तः-मण्डयन्तः प्रसाधकः अलंकारः आदर्शश्च / टुनदु समृद्धौ / ण्यन्तः-नन्दयन्तः सुखकृत् राजा हिरण्यं सुखं च / नन्दयन्ती। रेङ् पथि गतौ / रेवन्तः सूर्यपुत्रः / अनुक्तार्था धावर्थकाः / ___ सामन्तहेमन्तभदन्तदुष्यन्तादयः // 222 // एतेऽन्तप्रत्ययान्ता निपात्यन्ते / सिनोतेः सीम् च / सीमन्तः केशमार्गः ग्रामक्षेत्रान्तश्च / हन्तेहिनोतेर्वा हेम् च / हेमन्तः ऋतुः / भन्दते लुक् च / भदन्तः निर्ग्रन्थेषु शाक्येषु च पूज्यः। दुषेोऽन्तश्च / दुष्यन्तः राजा। आदिग्रहणादन्येऽपि / शकेरुन्तः॥२२३॥ शक्लंट् शक्तावित्यस्मादुन्तः प्रत्ययः स्यात् / शकुन्तः पक्षी। कषेर्डित् // 224 // कष हिंसायामित्येतस्मात् डिदुन्तः प्रत्ययः स्यात् / कुन्तः आयुधम् / कामिनुगार्तिभ्यस्थः // 22 // एभ्यस्थः प्रत्ययः स्यात् / कमूङ् कान्तौ / कन्था पावरणं नगरं च / मुङ् गतौ / पोथः पियो युवा शुकरमुखं घोणा च / गैं शब्दे / गाथा श्लोकः आर्या वा। क्रं गतौ / अर्थः जीवाजीवादिपदार्थः प्रयोजनम् अभिधेयं धनं यात्रा निवृत्तिश्च / / अवाद गोऽच्च वा // 226 // अवपूर्वाद् गायतेस्थः प्रत्ययोऽचान्तादेशो वा।