SearchBrowseAboutContactDonate
Page Preview
Page 777
Loading...
Download File
Download File
Page Text
________________ 764 सिद्धहैमबृहत्प्रक्रिया. [ कृदन्ते बीजजन्मनि / रोहितः वर्णः मत्स्यः मृगजातिश्च / लत्वे-लोहितः वर्णः / लोहितम् अमृक् / शोण वर्णगत्योः / शोणितं रुधिरम् / पल गतौ / पलितं श्वेतकेशः / ___ नत्र आपेः // 211 // नञ् पूर्वादाप्लंट् व्याप्तावित्यस्मादितः प्रत्ययः स्यात् / नापितः कारुविशेषः / क्रुशिपिशिपृषिकृषिकुस्युचिभ्यः कित् // 212 // एभ्यः किदितः प्रत्ययः स्यात् / क्रुश आह्वानरोदनयोः / शितं पापम् / पिशत् अवयवे / पिशितं मांसम् / पृषू सेचने / पृषितं वारिबिन्दुः / कुष्श निष्कर्षे / कुषितं पापम् / कुसच् श्लेषे / कुसितः ऋषिः / कुसितम् ऋणं श्लिष्टं च / उचच् समवाये / उचितं स्वभावः योग्य चिरानुयातं श्रेष्ठं च। ___ हग ईतण् // 213 // हंग् इत्यस्मादीतण् प्रत्ययः स्यात् / हारीतः पक्षी ऋषिश्च / -- अदो भुवो डुतः // 214 // अद्पूर्वाद् भुवो डुतः प्रत्ययः स्यात् / अद् विस्मितं भवति तेन तस्मिन् वा मनः अद्भुतमाश्चर्यम् / कुलिमयिभ्यामूतक् // 215 // आभ्यामूतक् प्रत्ययः स्यात् / कुल बन्धुसंस्त्यानयोः / कुलूताः जनपदः / मयि गतौ / मयता वसतिः। जीवेर्मश्च // 216 // जीव प्राणधारणे इत्यस्मादूतक् प्रत्ययः स्यान्मन्तादेशश्च / जीमूतः मेघः गिरिश्च / - कबरोतः प् च // 217 // कबृङ् वर्णे इत्यस्मादोतः प्रत्ययः पश्चान्तादेशः / कपोतः पक्षी वर्णश्च / आस्फायेर्डित् // 218 // आपूर्वात् स्फायै वृद्धावित्यस्मात् डिदोतः प्रत्ययः स्यात् / आस्फोता नाम ओषधिः / जविशिभ्यामन्तः // 219 // आभ्यामन्तः प्रत्ययः स्यात् / जुषच जरसि। जरन्तः भूतग्रामः वृद्धः महिषश्च / विशंन् प्रवेशने। वेशन्तः पल्वलम् वल्लभः अप्रातापवर्गः आकाशं च / रुहिनन्दिजीविप्राणिभ्यष्टिदाशिषि // 220 // एभ्य आशिषि टिदन्तः प्रत्ययः स्यात् / रुहं जन्मनि / रोहतात् रोहन्तः वृक्षः / रोहन्ती ओषधिः। टुनदु समृद्धौ / नन्दतात् नन्दन्तः सखा आनन्दश्च / नन्दन्ती सखी / जीव प्राणधारणे।
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy