________________ उणादिप्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 763 मुश्च धाखादिः / मुहूर्तः कालविशेषः। आदिग्रहणादयुतनियुतादयो भवन्ति / ___ कृगो यङः // 205 // करोतेयङन्तात् कित् तः प्रत्ययः स्यात् / चेक्रीयितः पूर्वाचार्याणां यङ्प्रत्ययसंज्ञा / . इवर्णादि पि // 206 / / करोतेयंङो लुपि इवर्णादिस्तः प्रत्ययः स्यात् / चर्करितं चर्करीतं यलुबन्तस्याख्ये / दृपृभृमृशीयजिखलिवलिपविपच्यमिनमितमिशिहार्यकङ्किभ्योऽ. तः // 207 // एभ्योऽतः प्रत्ययः स्यात् / दृत् आदरे / दरतः आदरः। क् पालनपूरणयोः / परतः कालः / टुडु,गक पोषणे च / भरतः आदिचक्रवर्ती हिमवत्समुद्रमध्यक्षेत्रं च / मृत् प्राणत्यागे / मरतः मृत्युः अग्निः प्राणी च / शीक् स्वप्ने / शयतः निद्रालुः चन्द्रः स्वमः अजगरश्च / यजों देवपूजासंगतिकरणदानेषु / यजतः यज्वा अग्निश्च / खल संचये च / खलतः शीर्णकेशशिराः / वलि संवरणे / वलतः कुशूलः। पर्व पूरणे / पर्वतः गिरिः। डुपचीप पाके / पचतः अग्निः आदित्यः पालकः इन्द्रश्च / अम गतौ / अमतः मृत्युः जीवः आतङ्कश्च / णमं प्रवत्वे / नमतः नटः देवः ऊर्णास्तरणं हस्खश्च / तमूच काङ्क्षायाम् / तमतः निर्वेदी आकाङ्क्षी धूमश्च / दृशृं प्रेक्षणे / दर्शतः द्रष्टा अग्निश्च / हर्य क्लान्तौ / हर्यतः वायुः अश्वः कान्तः रश्मिः यज्ञश्च / ककु गतौ। कङ्कतः केशमार्जनम् / __ पृषिरञ्जिसिकिकालावृभ्यः कित् // 208 // एभ्यः किदतः प्रत्ययः स्यात् / पृष सेचने / पृषतः हरिणः / रञ्जी रागे। रजतं रूप्यम् / सिकिः सौत्रः। सिकताः वालुका / के शब्दे / कतः गोत्रकृत् / लांक आदाने / लता वल्ली। दृग्ट वरणे / व्रत शास्त्रविहितो नियमः। कृवृकल्यलिचिलिविलीलिलानाथिभ्य आतक् // 209 // एभ्य आतक् प्रत्ययः स्यात् / कृत विक्षेपे / किरातः शबरः। वृगट वरणे / व्रातः समूहः उत्सेधजीविसंघश्च / कलि शब्दसंख्यानयोः / कलातः ब्रह्मा। अली भूषणादौ / अलातम् उल्मुकम् / चिलत् वसने / चिलातो म्लेच्छः / विलत् वरणे। विलातः शवाच्छादनवस्त्रम् / इलत् गत्यादौ / इलातः नगः / लांक आदाने / लातः मृत्तिकादानभाजनम् / नाङ उपतापैश्वर्याशीःषु / नाथातः आहारः प्रजापतिश्च / - हृश्यारुहिशोणिपलिभ्य इतः // 210 // एभ्य इतः प्रत्ययः स्यात् / हंग हरणे / हरितः वर्णः / श्यैङ् गतौ। श्येतः वर्णः मृगः मत्स्यः श्येनश्च / रुहं