________________ उणादिपकरणम् ] सिद्धहैमबृहत्मक्रिया. 761 पषो णित् // 192 // पपी बाधनस्पर्शनयोरित्यस्मात् आणक् प्रत्ययः स्यात् स च णित् / पाषाणः प्रस्तरः। ___ कल्याणपर्याणादयः // 193 // कल्याणादयः शब्दा आणक्प्रत्ययान्ता निपात्यन्ते / कलेोऽन्तश्च / कल्याणं श्वोवसीयसम् / परिपूर्वादिणो लुक् च / पर्याणम् अश्वादीनां पृष्ठच्छदः। आदिग्रहणाद् द्रेक्काणवोक्काणकेकाणादयो भवन्ति / द्रुहृवृहिदक्षिभ्य इणः // 194 // एभ्य इणः प्रत्ययः स्यात् / टुं गतौ / द्रविणं द्रव्यम् / हृग हरणे / हरिणः मृगः। बृह वृद्धौ / बर्हिणः मयूरः। दक्षि शैघ्ये च / दक्षिणः कुशलः अनुकूलश्च / दक्षिणा दिक् ब्रह्मदेयं च। ऋद्रहः कित् // 195 // आभ्यां किदिणः प्रत्ययः स्यात् / ऋश् गतौ / इरिणम् ऊपरं कुञ्जः वनदुर्ग च / द्रुहौच जिघांसायाम् / द्रुहिणः ब्रह्मा क्षुद्रजन्तुश्च / ऋकृवृध्दारिभ्य उणः // 196 / / एभ्य उणः प्रत्ययः स्यात् / ऋक् गतौ / अरुणः सूर्यसारथिः उषा वर्णश्च / कृत् विक्षेपे / करुणा दया। करुणः करुणाविषयः / करुणं दैन्यम् / वृश् भरणे। वरुणः प्रचेताः। धुंग धारणे / धरुणः धर्ता आयुक्तो लोकश्च / दृश् विदारणे / णौ-दारुण उग्रः / क्षः कित्॥१९७॥ः क्षये इत्यस्मात् किदुणः प्रत्ययः स्यात् / क्षुणः व्याधिः क्षामः क्रोधः उन्मत्तश्च / भिक्षुणी // 198 // भिक्षेरुणः प्रत्ययो ङीश्च निपात्यते / भिक्षुणी व्रतिनी। गादाभ्यामेष्णक् // 199 // आभ्यामेष्णक् प्रत्ययः स्यात् / - शब्दे / गेष्णः मेषः उद्गाता रङ्गोपजीवी च / गेष्णं साम सुखं च / रात्रिगेष्णः रङ्गोपजीवी। सुगेष्णा किन्नरी / डुदांगक् दाने। देष्णः बाहुः दानशीलश्च / चारुदेष्णः सात्यभामेयः / सुदेष्णा विराटपत्नी / दम्यमितमिमावापूधूगृजृहसिवस्यसिवितसिमसीणभ्यस्तः // 20 // एभ्यस्तः प्रत्ययः स्यात् / दमूच उपशमे। दन्तः दशनः हस्तिदंष्ट्रा च / अम गतौ। अन्तः अवसानं धर्मः समीपं च / तमूच काङ्क्षायाम् / तन्तः खिन्नः। मांक माने / मातम् अन्तः प्रविष्टम् / वांक् गतिगन्धनयोः / वातः वायुः / पूग्श् पवने / पोतः नौः अग्निः बालश्च। धूगश् कम्पने / धोतः धूमः शठः वातश्च। गृत् निगरणे। गतः श्वभ्रम् / जृष्च् जरसि / जतः प्रजननं राजा च / हसे हसने / हस्तःकरः नक्षत्रं 96