SearchBrowseAboutContactDonate
Page Preview
Page 773
Loading...
Download File
Download File
Page Text
________________ 760 सिद्धहैमबृहत्मक्रिया. [ कृदन्ते रुंङ् रेषणे वा / रवणः करभः अग्निः द्रुमः वायुः भृङ्गः शकुनिः सूर्यः घण्टा च / रुहं जन्मनि / रोहणः गिरिः। लक्षीण दर्शनाङ्कनयोः / लक्षणं व्याकरणं शुभाशुभसूचकं रेखातिलकादि अङ्कनं च। चक्षिक व्यक्तायां वाचि / विचक्षणः विद्वान् / चुक्कण व्यथने / चुक्कणः व्यायामशीलः / बुक्क भाषणे। बुक्कणः श्वा वावदूकश्च / तगु गतौ / तङ्गणाः जनपदः ।अगु गतौ / अङ्गणम् अजिरम् / मकुङ् मण्डने / मङ्कणः ऋषिः। ककुङ् गतौ / कङ्कणः प्रतिसरः। चर भक्षणे च / चरणः पादः / ईरिक् गतिकम्पनयोः सम्पूर्वः / समीरणः वातः। कृगप्रकृपिवृषिभ्यः कित् // 188 // एभ्यः किदणः प्रत्ययः स्यात् / कृत् विक्षेपे। किरणः रश्मिः / गृत् निगरणे / गिरणः मेघः आचार्यः ग्रामश्च / पृश् पालनपूरणयोः / पुरणः समग्रयिता समुद्रः पर्वतविशेषश्च / कृपौङ् सामर्थे / कृपणः कीनाशः / वृधू सेचने / वृषणः मुष्कः / धृषिवहेरिचोपान्त्यस्य // 189 // आभ्यां किदणः प्रत्ययः, इच्चोपान्त्यस्य / विधृषाट् प्रागल्भ्ये / धिषणः बृहस्पतिः। धिषणा बुद्धिः। वहीं प्रापणे / विहणः ऋषिः पाठश्च / चिक्कणकुकणकृकणकुणत्रवणोल्वणोरणलवणवखणादयः॥१९०॥ एते किदणप्रत्ययान्ता निपात्यन्ते / चिनोतश्चिक्क च / चिक्कणः पिच्छिलः / कुकिकृगोः कोऽन्तश्च / कुक्कणः शकुनिः। कृकणः ऋषिः। कुकेः स्वरान्नोऽन्तश्च / कुङ्कणाः जनपदः। त्रपेर्वश्च / त्रवणः देशः। वलेवस्योत वोऽन्तश्च / उल्वणः स्फारः। अर्तेरुर् च / उरणः मेषः। लीयतेः क्लिद्यतेः स्वदतेर्वा लवादेशश्च / लवणं गुणः द्रव्यं च / वश्चः सः परादिनलोपाभावश्च / वडणः ऊरुमूलसन्धिः / आदिशब्दाज्योतिरिङ्गणतुरणभुरणादयो भवन्ति / कृपिविषिवृषिधृषिमृषियुषिटुहिग्रहराणक् // 191 // एभ्य आणक् प्रत्ययः स्यात् / कृपौङ् सामर्थ्ये / कृपाणः खङ्गः / विषू सेचने / विषाणं शृङ्गं करिदन्तश्च / वृष सेचने / वृषाणः / विधृषाट् प्रागल्भ्ये / धृषाणः देवः / मृषू सहने च / मृषाणः / युषि सेवने सौत्रः। युषाणः / द्रुहौच जिघांसायाम् / द्रुहाणः मुखरः। ग्रहीश् उपादाने / गृहाण; / वृषाणादयः स्वप्रकृत्यर्थवाचिनः सर्वेऽपि कर्तरि कारके ज्ञेयाः।
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy