________________ 8 758 सिद्धहैमबृहत्मक्रिया. [ कृदन्ते कृतृशसभृभ्योऽण्डः // 173 // एभ्योऽण्डः प्रत्ययः स्यात् / जृष्च् जरसि / जरण्डः अतीतवयस्कः। कृव विक्षेपे / करण्डः समुद्गः समुद्रः कृमिजातिश्च / तृ प्लवनतरणयोः / तरण्डः प्लवः वायुश्च / शश् हिंसायाम् / शरण्डः हिंस्रः आयुधं च / सं गतौ। सरण्डः कृमिजातिः इषोका वायुः भूतसंघातः तृणसमवायश्च / टुडु,ग्क पोषणे च / भरण्डः भण्डजातिः पक्षी च / दृग्ट वरणे। वरण्डः कुड्यम् तृणकाष्ठादिभारश्च / पूगो गादिः // 174 // पूग्श् पवने इत्यस्मात् गकारादिरण्डः प्रत्ययः स्यात् / पोगण्डः विकलाङ्गः युवा च। - वनेस्त च // 175 // वन भक्तावित्यस्मादण्डः प्रत्ययः स्यात् तकारश्चान्तादेशः / वतण्डः ऋषिः। ... - पिचण्डैरण्डखरण्डादयः // 176 // एतेऽण्डप्रत्ययान्ता निपात्यन्ते / पिचेरगुणत्वं च / पिचण्डः लघुलगुडः। ईरेर्गुणश्च / एरण्डः पश्चागुलः। स्वाह भक्षणे। अन्त्यस्वरादेररादेशश्च / स्वरण्डः सर्वत॒कम् / आदिग्रहणात् कूष्माण्डशयण्डशयाण्डादयः। लगेरुडः // 177 // लगे सङ्गे इत्यस्मात् उडः प्रत्ययः स्यात् / लगुडः यष्टिः। गृजभूभ्यस्तु उडो विहित एव / कुशेरुण्डक् // 178 // कुशच श्लेषे इत्यस्मात् उण्डक् प्रत्ययः स्यात् / कुशुण्ड; वपुष्मान् / शमिषणिभ्यां ढः // 179 // आभ्यां ढः प्रत्ययः स्यात् / शमूच उपशमे / शण्ढः नपुंसकम् / षण भक्तौ / षण्डः स एव / बाहुलकात् सखाभावः / कुणेः कित् // 180 // कुणत् शब्दोपकरणयोरित्यस्मात् कित् ढः प्रत्ययः स्यात् / कुण्ढः धूर्तः। बाहुलकान दीर्घः / नञः सहेः षा च // 181 // नपूर्वात् पहि मर्षणे इत्यस्मात् दः प्रत्ययः स्यात् षा चास्यादेशः / अषाढा नक्षत्रम् / इणुर्विशावणिकवृतृसृपिपणिभ्यो णः // 182 // एभ्यो णः प्रत्ययः स्यात् / इणक् गतौ / एणः कुरङ्गः / उर्वै हिंसायाम् / उर्णा मेषादिलोम भ्रुवोरन्तरावर्तश्च / शांच् तक्षणे / शाणः परिमाणं शस्त्रतेजनं च / वेणूग् गतिज्ञान गजदव 8 દદદદ