________________ 756 [ कृदन्ते सिद्धहैमबृहत्प्रक्रिया. - कपोटवकोटाक्षोटकर्कोटादयः // 161 // एते ओटप्रत्ययान्ता निपात्यन्ते। कबृङ् वर्णे पश्च / कपोटः वर्णः कितवश्च / वचेः कश्च / वकोटः बकः। अनातेः सश्च परादिः। अक्षोटः फलवृक्षः। कृगः कोऽन्तश्च / कोटः नागः। आदिशब्दादन्येऽपि / वनिकणिकाश्युषिभ्यष्ठः // 162 // एभ्यष्ठः प्रत्ययः स्यात् / वन भक्तौ / वण्ठः अनिविष्टः / कण शब्दे / कण्ठः कन्धरा / काशृङ् दीप्तौ / काष्ठं दारु / काष्ठा दिक् अवस्था च / उधू दाहे / ओष्ठः दन्तच्छदः / पीविशिकणिपृषिभ्यः कित् // 163 // एभ्यः कित् ठः प्रत्ययः स्यात् / पीच् पाने / पीठमासनम् / विशंत् प्रवेशने / विष्ठा पुरीषम् / कुणत् शब्दोपकरणयोः / कुण्ठः अतीक्ष्णः / पृषु सेचने / पृष्ठः अङ्कुशः शरीरैकदेशश्च / कुषेर्वा // 164 // कुषश निष्कर्षे इत्यस्मात् ठः प्रत्ययः स्यात् स च किद्वा / कुष्ठं व्याधिः गन्धद्रव्यं च / कोष्ठः कुशूल: उदरं च / शमेलृक् च वा // 16 // शमूच् उपशमे इत्यस्मात् लुक् चान्तस्य वा / शठः धूर्तः / शण्ठः स एव नपुंसकं च / पष्टैधिटादयः॥१६६॥ पष्ठादयः शब्दाष्ठप्रत्ययान्ता निपात्यन्ते / पुषेः कित् ठः पषादेशश्च / पष्ठः प्रस्थः पर्वतश्च / एधतेरिट च। एघिठं वनम् / एघिठः गिरिसरिवहः / आदिशब्दादन्येऽपि / मृजृशृकम्पमिरमिरपिभ्योऽठः // 167 // एभ्योऽठः प्रत्ययः स्यात् / मुंद प्राणत्यागे / मरठः दध्यतिद्रवीभूतं कृमिजातिः कण्ठः प्राणश्च / जषच जरसि / जरठः कठोरः। शृश् हिंसायाम् / शरठः आयुधं पापं क्रीडनशीलश्च / कमूङ् कान्तौ / कमठः भिक्षाभाजनम् कूर्मास्थि कच्छपः मयूरः वामनश्च / अम गतौ / अमठः प्रकर्षगति; / रमि क्रीडायाम् / रमठः देशः कृमिजातिः क्रीडनशीलः म्लेच्छ: देवश्च विलातानाम् / रप व्यक्ते वचने / रपठः विद्वान् मण्डूकश्च / पश्चमात् डः // 168 // पञ्चमान्ताद् धातोर्डः प्रत्ययः स्यात् / षण् भक्तौ / षण्डः वनं वृषभश्च / बाहुलकात् सवाभावः / भण शब्दे / भण्डः प्रहसनकरः बन्दी च। चण शब्दे / चण्डः क्रूरः। पणि व्यवहारस्तुत्योः। पण्डः शण्डः। गणण संख्याने। गण्डः पौरुषयुक्तः पुरुषः। मण शब्दे / मण्डः रश्मिः अग्रम् अन्नविकारश्च / वन