________________ उणादिप्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 755 तृ प्लवनतरणयोः / तिरीटं कूलवृक्षः मुकुटं वेष्टनं च / कृत् विक्षेपे / किरीटं मुकुटं हिरण्यं च / कृपौङ् सामर्थ्ये / कृपीटं हिरण्यं जलं च / कपुङ चलने / कम्पीटं कम्पः कम्प्रं च / कृषीत् विलेखने / कृषीटं जलम् / खजेररीटः // 152 // स्वजु गतिवैकल्ये इत्यस्मादरीटः प्रत्ययः स्यात् / खञ्जरीटः खञ्जनः। गृजवृभृभ्य उट उडश्च // 153 // एभ्य उट उडश्च प्रत्ययौ स्याताम् / भिन्न विभक्तिनिर्देश उटस्योत्तरत्रानुवृत्त्यर्थः। अप्रकृतस्यापि उडस्य विधानमिह लाघवार्थम् / गृश् शब्दे / गरुटः गरुडश्च गरुत्मान् / जुष्च् जरसि / जरुट: जरुडश्च वनस्पतिः। दृश् विदारणे / दरुटः दरुडश्च बिडालः। गश् वरणे / वरुटः वरुडश्च मेषः। भृश भजने च / भरुटः भरुडश्च मेष एव / मलेर्मकमुकौ च // 154 // मकुङ् मण्डने इत्यस्मात् उटः प्रत्ययो मक मुक इत्यादेशौ चास्य / मकुटः मुकुटश्च किरीटः। ___ नर्कुटकुकुटोत्कुरुटमुरुटपुरुटादयः॥१५५।।एते उटप्रत्ययान्ता निपात्यन्ते। नृतेः कश्च / नर्कुटः बन्दी / कुकेः कोऽन्तश्च / कुक्कुटः कुकवाकुः / उत्पूर्वात् कुगः कुर् च / उत्कुरुटः कचवरपुञ्जः / मुरिपुर्योर्गुणाभावश्च / मुरुटः यत् वेण्वादिमूलमृजूकर्तुं न शक्यते / पुरुटः जलजन्तुः / आदिशब्दात् स्थपुटादयोऽपि / दुरो द्रः कूटश्च दुर् च // 156 // दुपूर्वाद् दृणातेः किदूट उटश्च प्रत्ययौ दुर् चास्यादेशः। दुर्दुरूटः दुर्मुखः। दुर्दुरुट: अदेशकालवादी / बन्धेः // 157 // बन्धंश् बन्धने इत्यस्मात् किदूटः प्रत्ययः स्यात् / बधूटी प्रथमवयाः स्त्री। चपेरेटः // 158 // चप सान्सने इत्यस्मादेटः प्रत्ययः स्यात् / चपेटः चपेटा वा हस्ततलाहतिः। ___ ग्रो णित् // 159 // गृत् निगरणे इत्यस्मात् णिदेटः प्रत्ययः स्यात् / गारेटः ऋषिः। __ कृशक्शाखेरोटः // 160 // एभ्य ओटः प्रत्ययः स्यात् / डुकंग करणे। करोटः भृत्यः शिरः कपालं च / करोटं भाजनविशेषः / शक्लंट शक्तौ। शकोटः बाहुः / शारव श्लाखु व्याप्तौ / शाखोटः वृक्षविशेषः /