________________ 754 सिद्धहैमबृहत्मक्रिया. [ कृदन्ते कपिलः कुलीरश्च / कर्कटी पुसी। मर्कट: कपिः क्षुद्रजन्तुश्च / कक्ख हसने / फक्खटः कर्कशः / तृ तरणप्लवनयोः। तरटः पीनः / डुकुंग करणे / करटः काकः करिकपोलश्च / सं गतौ / सरटः कुकलासः। टुडु,गक पोषणे च / भरटः प्लवविशेषः भृत्यः कुलालश्च / दृग्ट वरणे / वरटः क्षुद्रधान्यं प्रहारश्च / कुलिविलिभ्यां कित् // 143 // आभ्यां किदटः प्रत्ययः स्यात् / कुल बन्धुसंस्त्यानयोः / कुलटा बन्धकी / विलत् वरणे / विलटा नदी। कपटकीकटादयः // 144 // कपटादयः शब्दा अटप्रत्ययान्ता निपात्यन्ते / कम्पेनलोपश्च / कपटं माया / ककेरत ईच्च / कीकटः कृपणः। आदिशब्दाल्लपटपपंटादयो भवन्ति / अनिश्पृवृललिभ्य आटः // 145 // एभ्य आटः प्रत्ययः स्यात् / अनक् पाणने / अनाटः शिशुः। शश हिंसायाम् / शराटः कुन्तः / पृश् पालनपूरणयोः / पराट आयुक्तकः। तृश संभक्तो। वराट; सेवकः / ललिण ईप्सायाम् / ललाटम् अलिकम् / मृमृपेः कित् // 146 // आभ्यां किदाटः प्रत्ययः स्यात् / सं गतौ / स्राटः पुरःसरः / सप्लं गतौ / सूपाटः अल्पः कुमुदादिपत्रं च / मृपाटी उपानत् कुप्यम् अल्पपुस्तकश्च / किरो लश्च वा // 147 // किरतेः किदाटः प्रत्ययो लश्चान्तो वा / किलाटो भक्ष्यविशेषः / किराटो वणिक् म्लेच्छश्च / कपाटविराटशृङ्गाटप्रपुन्नाटादयः // 148 // एते आटप्रत्ययान्ता निपात्यन्ते / कम्पेनलोपश्च / कपाटः अररिः। जपादीनां पो वेति वत्वे कवाटः। वृङ इत्वं च / विराटः राजा। श्रयतेः शृङ् च / शृङ्गाट जलजविशेषः विपणिमार्गश्च / प्रपूर्वात् पुणेनंश्च / प्रपुन्नाटः एडगजः। आदिशब्दात् खल्वाटादयोऽपि / चिरेरिटो भ् च // 149 // चिरेः सौत्रादिटः प्रत्ययः स्याद् भकारश्चान्तादेशः। चिभिंटी वालङ्की / टिण्टश्चर् च वा // 150 // चिरेष्टिदिण्टः प्रत्ययश्चर् इति चास्यादेशो वा / चिरिण्टी च प्रथमवयाः स्त्री। तृकृकृपिकम्पिकृषिभ्यः कीटः // 151 // एभ्यः किदीटः प्रत्ययः स्यात् /