________________ 753 उणादिमकरणम् ] सिद्धहैमवृहत्पक्रिया. बलेवोऽन्तश्च वा // 133 // बल पाणनधान्यावरोधयोरित्यस्मात् अजः प्रत्ययो वकारश्चान्तो वा / बल्वजः मुञ्जविशेषः / बलजा सयुसो धान्यपुञ्जः / उटजादयः // 134 // उटजादयः शब्दा अजप्रत्ययान्ता निपात्यन्ते / वटेवस्योत्वं च / उटजं मुनिकुटीरः / आदिशब्दाद् भूर्जभरुजादयो भवन्ति / कुलेरिजक् // 135 // कुल बन्धुसंस्त्यानयोरित्यस्मात् इजक् प्रत्ययः स्यात् / कुलिजं मानम् / कृगोऽञ्जः // 136 // करोतेरञ्जः प्रत्ययः स्यात् / करञ्जः वृक्षजातिः। झमेझैः // 137 // झम् अदने इत्यस्मात् शः प्रत्ययः स्यात् / झञ्झा ससीकरो मेघवातः। लुषेष्टः // 138 // लुष स्तेये इत्यस्मा टः प्रत्ययः स्यात् / लोष्टो मृत्पिण्डः / नमितनिजनिवनिसनो लुक् च // 139 / / एभ्यष्टः प्रत्ययः स्यात् लुक् चान्तस्य / णमं प्रहत्वे / नटः भरतपुत्रः / तन्यी विस्तारे / तटं कूलम् / जनैचि प्रादुर्भावे / जटा ग्रथितकेशसंघातः। वन षण संभक्तो / वटः न्यग्रोधः / सटा अग्रथितः केशसंघातः। जनिपणिकिजुभ्यो दीर्घश्च // 140 // एभ्यष्टः प्रत्ययो दीर्घश्चैषां गुणापवादः। जनैचि प्रादुर्भावे / पणि व्यवहारस्तुत्योः। जाण्टः। पाण्टः। पक्षिविशेषावेतौ। किजू सौत्रौ / कीटः क्षुद्रजन्तुः। जूटः मौलिः / घटाघाटाघण्टादयः // 141 // एते टप्रत्ययान्ता निपात्यन्ते / हन्तेर्घघाघनश्च। घटा वृन्दम् / घाटा स्वाङ्गम् / घण्टा वायविशेषः। आदिग्रहणाच्छटादयो भवन्ति / दिव्यविश्रुकुकर्विशकिकङ्किकृपिचपिचमिकम्यधिकर्किमर्किकक्खितृकृमृभृवृभ्योऽष्टः // 142 // एभ्योऽटः प्रत्ययः स्यात् / दिवूच क्रीडादौ / देवटः देवकुलविशेषः शिल्पी च / अव रक्षणादौ / अवटः प्रपातः कूपश्च / श्रृंट श्रवणे / श्रवटः छत्रम् / कुंक् शब्दे। कवटः उच्छिष्टम् / कर्व गतौ / कटं क्षुद्रपत्तनम् / शक्लंट शक्तौ / शकटम् अनः। ककुङ् गतौ। कङ्कटः सन्नाहः। कङ्कटं सीमा। कृपौङ् सामर्थे / कर्पटं वासः / चप सान्वने / चपटः रसः / चमू अदने / चमटः घस्मरः। कम्ङ् कान्तौ / कमटः वामनः / एधि वृद्धौ / एघटः वल्मीकः। ककिमी सौत्रौ / कर्कटः