________________ 752 सिद्धहैमबृहत्प्रक्रिया. . [कृदन्ते ____ तुदिमदिपद्यदिगुगमिकचिभ्यश्छक् // 124 // एभ्यश्छक् प्रत्ययः स्यात् / तुदीत् व्यथने / तुच्छः स्तोकः / मदैच् हर्षे / मच्छीमत्स्यः प्रमत्तपुरुषश्च / मच्छा स्त्री। पदिच गतौ। पच्छः शिला / अदंक भक्षणे / अच्छ: निर्मलः / गुंङ् शब्दे / गुच्छः स्तबकः / गम्लं गतौ / गच्छः क्षुद्रक्षः। कचि बन्धने / कच्छः कूर्मपादः कुक्षिः नद्यवकुटारश्च / कच्छा जनपदः / बाहुलकात् कखाभावः / पीपूडो ह्रस्वश्च // 12 // आभ्यां छक् प्रत्ययः स्यात् इस्वश्च / पीच पाने / पिच्छम् शकुनिपत्रम् / पिच्छः गुणविशेषः, यद्वान् पिच्छिल उच्यते / पू पवने / पुच्छं वालधिः। गुलुन्छपिलिपिन्छैधिच्छादयः // 126 // एते छपत्ययान्ता निपात्यन्ते / गुडेल उम् चान्तः / गुलुन्छः स्तवकः। पीलेरिपिनोऽन्तो ह्रस्वश्च / पिलिपिञ्छः रक्षोविशेषः। एधेरिट् च / एघिच्छः नगः। आदिग्रहणात् पिञ्छादयोऽपि भवन्ति / वियो जक् // 127 // वींक प्रजनकान्त्यसनखादनेषु च इत्यस्मात् जक् प्रत्ययः स्यात् / बीजम् उत्पत्तिहेतुः / पुवः पुन च // 128 // पूङ् पवने इत्यस्मात् जक् प्रत्ययोऽस्य च पुन् इत्यादेशः / पुञ्जः राशिः। ... कुवः कुब्कुनौ च // 129 // कुंङ् शब्दे इत्यस्माजक् प्रत्ययोऽस्य च कुबू कुन् इत्यादेशौ / कुब्जः वक्रानताङ्गः गुच्छश्च / कुञ्जः हनुः पर्वतैकदेशश्च / निकुञ्जः गहनम् / कुटेरजः // 130 // कुटत् कौटिल्ये इत्येतस्मादजः प्रत्ययः स्यात् / कुटजः वृक्षविशेषः / कुटादिखाद् डिवम् / कुटजी। ... भिषेभिषभिष्णौ च वा // 131 // भिषेरजः प्रत्ययो भिष भिष्ण इत्यादेशौ चास्य वा। भिषिः सौत्रः। भिषजः / आदेशवलान गुणः / मिष्णजः वैद्यः / भेषजमौषधम् / मुर्वेर्मुर् च // 132 // मुर्वै बन्धने इत्यस्मादजः प्रत्ययोऽस्य च मुरित्यादेशः। मुरजः मृदङ्गः।