________________ 751 उणादिप्रकरणम् ] सिद्धहैमबृहत्पक्रिया. कल्यविमदिमणिकुकणिकुदिकृभ्योऽचः // 114 // एभ्योऽचः प्रत्ययः स्यात् / कलि शब्दसंख्यानयोः। कलचः गणकः / अव रक्षणादौ / अवचः उच्चैस्तरः / मदैच हर्षे / मदचः मत्सः / मण शब्दे / मणचः शकुनिः। कुंड शब्दे / कवचं वर्म / कण शब्दे / कणचः कुणपः / कुटत् कौटिल्ये / कुटयः वृक्षजातिः। कृत् विक्षेपे / करचः धान्यावपनम् / ___क्रकचादयः // 11 // क्रकच इत्यादयः शब्दा अचमत्ययान्ता निपात्यन्ते / क्रमेः कश्च / क्रकचः करपत्रः। आदिशब्दादन्येऽपि / पिशेराचक्॥११६पिशत् अवयवे इत्यस्मादाचक् प्रत्ययः स्यात् / पिशाच; व्यन्तरजातिः। मृत्रपिभ्यामिचः // 117 // आभ्यामिचः प्रत्ययः स्यात् / मृत् प्राणत्यागे / मरिचमूषणम् / त्रपौषि लज्जायाम् / त्रपिचा कुथा / ___ म्रियतेरीचण् // 118 // मंत् प्राणत्यागे इत्यस्मादीचण् प्रत्ययः स्यात् / मारीचः रावणमातुलः। लषेरुचः कश्च // 119 / / लषी कान्तावित्यस्मादुचः प्रत्ययोऽन्त्यस्य च कः। लकुचः वृक्षजातिः। गुडेरूचट् // 120 // गुडत् रक्षायामित्यस्मादूचट् प्रत्ययः स्यात् / गुडुची छिन्नरुहा / कुटादित्वाद् ङिच्चम् / सिवेर्डित् // 121 // पिवूच् ऊतौ इत्यस्मादूचट् प्रत्ययो डिन् स्यात् / सूचः पिशुनः स्तिमिश्च / सूची संधानकरणी / चिमेडोंचडश्नौ // 122 // चिमिभ्यां प्रत्येकं डोच डच इति प्रत्ययौ स्याताम् / वचनभेदान्न यथासंख्यम् / चिंग्ट् चयने / चोचः वृक्षविशेषः / चञ्चा तृणमयः पुरुषः / डुमिंग्ट प्रक्षेपणे / मोचा कदली / मञ्चः पर्यः / कुटिकुलिकल्युदिभ्य इश्क् // 123 // एभ्य इश्वक् प्रत्ययः स्यात् / कुटेः कुटिश्चः क्षुद्रकर्कटः। कुलेः कुलिश्चः राशिः। कले:-कलिनः उपशाखावयवः / उद आघाते सौत्रः / उदिश्चः कोणः येन तूर्य वाद्यते, परपुष्टश्च /