________________ 750 सिद्धहैमबृहत्मक्रिया. [कृदन्ते उचिलिङ्गादयः // 206 / उचिलिङ्गादयः शब्दा इङ्गम्मत्ययान्ता निपात्यन्ते / उत्पूर्वाञ्चलेरस्येत्वं च / उचिलिङ्गः दाडिमी / आदिग्रहणादन्येऽपि / ___ माङस्तुलेरुङ्गक् // 106 / / माङ्पूर्वात् तुलण् उन्माने इत्यस्माद् उङ्गक इङ्गच् प्रत्ययौ स्याताम् / मातुलुङ्गः बीजपूरः। मातुलिङ्गः स एव / कमितमिशमिभ्यो डित् // 107|| एभ्यो डिदुङः प्रत्ययः स्यात् / कमूल् कान्तौ / कुङ्गा जनपदः। तमूच काङ्क्षायाम् / तुङ्गः महावा / शमूच उपशमे / शुगः मुनिः। शुङ्गा विनता। शुङ्गाः कन्दल्यः / ___ सर्तेः सुर्च // 108 // सुं गतावित्यस्मादुङः प्रत्ययः सुर् चास्यादेशः। सुरुङ्गा गूढमार्गः / स्थार्तिजनिभ्यो घः॥१०९॥ एभ्यो घः प्रत्ययः स्यात् / ष्ठां गतिनिवृत्तौ / स्थाघः गाधः / कं पापणे च / अर्घः मूल्यं मानप्रमाणं पादोदकादि च / जनैचि प्रादुर्भावे / जङ्घा शरीरावयवः। मघाघवाघदीर्घादयः // 110 // एते घप्रत्ययान्ता निपात्यन्ते / मलेनघलोपश्च / मघा नक्षत्रम् / हन्तेर्हस्य घश्च / घवः घस्मरः। घडा काङ्क्षा / अमेर्लुक् च / अयं पापम् / हणातेदर्दीर च / दीर्घः आयातः उन्नश्च / आदिशब्दादन्येऽपि / सर्तेरघः // 111 // सं गतावित्यस्मादयः प्रत्ययः स्यात् / सरघा मधुमक्षिका। कूपूसमिणभ्यश्चट दीर्घश्च // 112 // कूपूभ्यां सम्पूर्वाञ्चेषश्च चट् प्रत्ययः स्यात् दीर्घश्च / टो डन्यर्थः। कुंङ शब्दे / कूचः हस्ती / कूची प्रमदा चित्रभाण्डम् उदश्विद्विकारश्च / पूगश् पवने / पूचः पूची मुनिः / इणक् गतौ / समीचः ऋविक् / समीचं मिथुनयोगः। समीची पृथ्वी उदीची च / दीर्घवचनाद् गुणो न / ___ कूर्चचूर्चादयः // 113 // कूर्चादयः शब्दाश्वट्मत्ययान्ता निपात्यन्ते / कवते: किरते: करोतेर्वा ऊरादेशश्चान्तस्य / कूर्च श्मश्रु आसनं तन्तुवायोपकरणं यतिपवित्रकं च / कूर्चमिव कूर्चकः कूचिकेति च भवति / चरतेश्चोरयतेर्वा चूरादेशश्च / चूर्चः बलवान् / आदिशब्दादन्येऽपि /