SearchBrowseAboutContactDonate
Page Preview
Page 762
Loading...
Download File
Download File
Page Text
________________ उणादिप्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 749 __ पतितमितृपकशृस्वादेरङ्गः // 98 // एभ्योऽङ्गः प्रत्ययः स्यात् / पल्लू गतौ। पतङ्गः पक्षी शलभः सूर्यः शालिविशेषश्च / तमूच् काङ्क्षायाम् / तमङ्गः हर्म्यनिषूहः। तृ प्लवनतरणयोः / तरङ्गः ऊर्मिः। पृश् पालनपूरणयोः / परङ्गः खगः वेगश्च / कृत् विक्षेपे / करङ्गः कर्मशीलः / श् हिंसायाम् / शरङ्गः पक्षिविशेषः / लूगश छेदने। लवङ्गः सुगन्धिक्षः / आदिग्रहणादन्येभ्योऽपि / सूत्रनृभ्यो णित् // 99 / / एभ्यो णिदङ्गः प्रत्ययः स्यात् / सं गतौ / सारङ्गः हरिणः चातकः शवलवर्णश्च। दृगट वरणे। वारङ्गः काण्डखड्गयोः शल्यं शकुनिश्च / नृश् नये / नारङ्गः वृक्षजातिः। मनेर्मन्मातौ च // 100 // मनिंच इत्यस्मादङ्गः प्रत्ययो मत्मातौ चास्यादेशौ / मतङ्गः ऋषिः हस्ती च / मातङ्गः हस्ती अन्त्यजातिश्च / विडिविलिकुरिमृदीपिशिभ्यः कित् // 101 // एभ्यः किदङ्गः प्रत्ययः स्यात् / विड आक्रोशे। विडङ्गः वृक्षजातिः गृहावयवश्व / विलत् वरणे, बिलत् भेदने वा / विलङ्गः औषधम् / कुरत् शब्दे / कुरङ्गः हरिणः / कुरङ्गी भोजकन्या। मृदश् क्षोदे / मृदङ्गः मुरजः। पिशत् अवयवे / पिशङ्गः वर्णः / ___ स्फुलिकालिपल्याझ्य इङ्गक // 102 // स्फुल्यादिभ्य आदन्तेभ्यश्च इङ्गक् प्रत्ययः स्यात् / स्फुलत् संचये च / स्फुलिङ्गः स्फुलिङ्गा च अग्निकणः। कलि शब्दसंख्यानयोः। कलिङ्गः राजा कलिङ्गा जनपदः / पल गतौ / पलिङ्ग ऋषिः शिला च / पातेः पिङ्गः / भातेः भिङ्गः। द्वावपि वर्णविशेषौ / ददातेः दिङ्गः अध्यक्षः। दधातेः धिङ्गः श्रेष्ठी / लातेः लिङ्गं स्त्रीलादि हेतुश्च / आलिङ्गः वाद्यविशेषः / श्यतेः शिङ्गः वनस्पतिः किशोरश्च। भलेरिदुतौ चातः॥१०३॥ भलिण आभण्डने इत्यस्मादिङ्गक प्रत्ययः स्यात् अकारस्य चेकारोकारौ। भिलिङ्गः कर्मारोपकरणम् / भुलिङ्गः ऋषिः पक्षी / अलिङ्गाः साल्वावयवा। अदेर्णित् // 104 // अदंक भक्षणे इत्यस्मात् णिदिङ्गक् प्रत्ययः स्यात् / आदिङ्गः वाद्यजातिः।
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy