________________ 748 सिद्धहैमबृहत्पक्रिया. [कृदन्ते महेरुच्चास्य वा // 89 // मह पूजायामित्यस्मात् खः प्रत्ययः कित् अन्तलुक् अकारस्य चोकारादेशो वा / मुखमाननम् / मखः यज्ञः अध्वर्युः ईश्वरश्च / न्युङ्खादयः // 90 // न्युङ्खादयः शब्दाः खपत्ययान्ता निपात्यन्ते / नयतेः ख उन् चान्तः न्युङ्खाः षडोङ्काराः। आदिग्रहणादन्येऽपि / मयेधिभ्यामूखेखौ // 11 // मयि गतौ एधि वृद्धौ इत्याभ्यां यथासंख्यमूखेख इत्येतौ प्रत्ययौ स्याताम् / मयूखः रश्मिः। एधिखः वराहः / गम्यमिरम्यजिगद्यदिछागडिखडिगृभृवस्तृभ्यो गः // 92 // एभ्यो गः प्रत्ययः स्यात् / गम्लं गतौ / गङ्गा देवनदी / अम गतौ / अङ्गं शरीरावयवः। अङ्गः समुद्रः वह्निः राजा च / अङ्गा जनपदः। रमि क्रीडायाम् / रङ्गः नाट्यस्थानम् / अज क्षेपणे च / वेगः खरा रेतश्च / गद व्यक्तायां वाचि / गद्गः वाग्विकलः / अदंक भक्षणे / अद्गः समुद्रः अग्निः पुरोडाशश्च / छोंच छेदने / छागः बस्तः / गड सेचने / गड्गः मृगजातिः। खडण भेदे / खड्गः मृगविशेषोऽसिश्च / गृत् निगरणे। गर्गः ऋषिः / टुडु,गक पोषणे च / भर्गः रुद्रः सूर्यश्च / वृगट वरणे। वर्गः संघातः। औस्व शब्दोपतापयोः / स्वर्गः नाकः / पूमुदिभ्यां कित् // 93 // आभ्यां किद् गः प्रत्ययः स्यात् / पूगश् पवने / पूगः संघः क्रमुकश्च / मुदि हर्ष / मुद्गः धान्यविशेषः। भृवृश्यां नोऽन्तश्च // 94 // आभ्यां किद् गः प्रत्ययो नकारश्चान्तः। टुडुभुंग पोषणे च / भृङ्गः पक्षी भ्रमरः वर्णविशेषः लवङ्गश्च। ग्ट वरणे / दृङ्गः पक्षी उपपतिः। - दुमो णिद्वा // 9 // द्रम गतावित्यस्माद् गः प्रत्ययः स च णिद्वा / द्राङ्गं शीघ्रम् / द्राङ्गः पांशुः / द्रङ्गः नगरम् / द्रङ्गा शुल्कशाला / - शृङ्गशामयः // 96 // शृङ्गादयः शब्दा गप्रत्ययान्ता निपात्यन्ते / शृश् हिंसायामित्यस्य इखो नोऽन्तश्च / शृङ्गं विषाणं शिखरं च / तस्यैव नोऽन्तो दृद्धिश्च। शार्ज पक्षी / आदिग्रहणाद् हंग् हरणे हार्ग:परितोष;। मृत् प्राणत्यागे / मार्गः पन्थाः। तडेरागः // 97 // तड ण आघाते इत्यस्मादागः प्रत्ययः स्यात् / तडागं सरः।