SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ उपादिप्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. 747 कुषीतकः ऋषिः। बलिबिलिशलिदमिभ्य आहकः // 81 // एभ्य आहकः मत्पयः स्यात् / बल प्राणनधान्यावरोधयोः। बलाहकः मेघः वातश्च / बिल भेदने / बिलाहकः वज्रः। बाहुलकान गुणः / शल गतौ / शलाहकः वायुः। दमूच उपशमे / दमाहकः शिष्यः। ___ चण्डिभल्लिभ्यामातकः // 82 // आभ्यामातकः प्रत्ययः स्यात् / चडुङ् कोपे / चण्डातकं नर्तक्यादिवासः। भल्लि परिभाषणहिंसादानेषु / भल्लातकः वृक्षः। लेष्मातकाम्रातकामिलातकपिष्टातकादयः // 83 // एते आतकमत्ययान्ता निपात्यन्ते / श्लिषेर्मश्च परादिः। लेष्मातकः कफेलुः। अमेद्धी रश्चान्तः / आम्रातकः वृक्षः / नञः परस्य म्लायतेमिल च / अमिलातकम् वर्णपुष्पम् / पिषेस्तोऽन्तश्च / पिष्टातकं वर्णचूर्णम् / आदिग्रहणात् कोशातक्यादयो भवन्ति / __ शमिमनिभ्यां खः // 84 // आभ्यां खः प्रत्ययः स्यात् / शमूच उपशमे / शङ्खः कम्बुः निधिश्च / मनिच ज्ञाने / मङ्खः मागधः कृपणः चित्रपटश्च / मङ्खा मङ्गलम् / श्यतेरिच चा // 8 // शोंच तक्षणे इत्यस्मात् खः प्रत्यय इश्वास्यान्तादेशो वा। शिखा चूडा ज्वाला च। विशिखा आपणः। विशिखः वाणः। शाखा विटपः / विशाखा नक्षत्रम् / विशाखः स्कन्दः / ___ पूमुहोः पुन्मूरौ च // 86 // पूङ् पवने मुहौच वैचित्ये इत्येताभ्यां खः प्रत्ययोऽनयोश्च यथासंख्यं पुन् मूर् इत्यादेशौ / पुङ्खः बाणबुन्धभागः मङ्गलाचारश्च / मूर्खः अज्ञः। अशात् // 87 // अशौटि व्याप्तावित्यस्मात् डित् खः प्रत्ययः स्यात् / अनुत इति खमाकाशमिन्द्रियं च / नास्य खमस्ति नखः / शोभनानि खानि अस्मिन् मुखम् / दुष्टानि खान्यस्मिन् दुःखम् / / उषेः किल्लुक् च // 88 // उषू दाहे इत्यस्मात् कित् खः प्रत्ययः स्यात् लुक् चान्त्यस्य / ओपन्त्यस्यामिति उखा स्थाली ऊर्ध्वक्रिया वा /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy