SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ 746 सिद्धहैमहत्प्रक्रिया. [कृदन्त शीभीराजेश्चानकः // 71 // शीभीराजिभ्यो धालूशिविभ्यश्चानकः प्रत्ययः स्यात् / शी स्वप्ने। शयानकः अजगरः शैलश्च। त्रिभीक् भये / विभेत्यस्मादिति भयानकः भीमः व्याघ्रः वराहः राहुश्च / राजग दीप्तौ / राजानकः क्षत्रियः / डुधांगक् धारणे च / धानकः हेमादिपरिमाणम् / लूगश छेदने / लवानकः देशविशेषः दात्रं च / शिवन्त्यनेनेति शिवानकः *लेष्मायुः पुरीषं च / अडित् / / 72 // अणेडिंदानकः प्रत्ययः स्यात् / अण शब्दे / आनकः पटहः। कनेरीनकः // 73 // कनै दीप्तिकान्तिगतिषु इत्यस्मादीनकः प्रत्ययः स्यात् / कनीनकः कनीनिका वाक्षितारका गुरु ईधुकधुकौ // 74 // गुङ् शब्दे इत्यास्मादीथुक एधुक इत्येतो प्रत्ययौ स्याताम् / गवीधुकं नगरं धान्यजातिश्च / गवेधुका तृणजातिः / / वृतेस्तिकः // 7 // तूङ् वर्तने इत्यस्मात् तिकः प्रत्ययः स्यात् / वर्तिका चित्रकरोपकरणं शकुनिः द्रव्यगुटिका च। कृतिपुतिलतिभिदिभ्यः कित् ||76 // एभ्यः कित्तिकः प्रत्ययः स्यात् / कृतैत् छेदने / कृत्तिका नक्षत्रम् / पुतिलती सौत्रौ / पुत्तिका मधुमक्षिका / लत्तिका वायविशेषः गौः गोधा च / गोपूर्वाद् गोलत्तिका गृहगोलिका। अवपूर्वादवलत्तिका गोधा / आलत्तिका गानपारम्भः / मिट्टपी विदारणे / भित्तिका कुड्यम् माषादिचूर्ण शरावती च नदी। इष्यशिमसिभ्यस्तकक् // 77 // एभ्यस्तकक् प्रत्ययः स्यात् / इषत् इच्छायाम् / इष्टका मृद्विकारः / अशोटि व्याप्तौ। अष्टकाः श्राद्धतिथयस्तिस्रः अष्टम्यः पितृदेवत्यं च / मसैच् परिणामे / मस्तकः शिरः / भियो द्वे च // 78 // विभीक् भये इत्यस्मात् तकक् प्रत्ययः स्यात् दे च रूपे भवतः / विभीतकः अक्षः। हरुहिपिण्डिभ्य ईतकः // 79 // एभ्य ईतकः प्रत्ययः स्यात् / हृग् हरणे / हरीतकी पथ्याः / रुहः जम्मानिः / रोहीतकः वृक्षविशेषः / पिडुङ् संकाते / पिण्डीतक; करहाटः।
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy