SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ उगादिप्रकरणम् ] सिद्हैमहत्पक्रिया. 745 वातेः किछ / उरु वाति उहवूकः एरण्डः / वृधेपश्च / वर्धते इति वरूकः तृणजातिः। आदिग्रहणादनू कवावदूकादयो भवन्ति / किरोऽङ्को रो लश्च वा // 32 // किरतेरङ्कः प्रत्ययः स्याद् रेफस्य च लकारादेशो वा / करङ्कः समुद्गः / कलङ्कः लाञ्छनम् / रालापाकाभ्यः कित् // 62 // एभ्यः किदङ्कः प्रत्ययः स्यात् / रांक दाने / रङ्कः अवलीयान् / लांक दाने। लङ्का पुरी / पांक रक्षणे। पङ्कः कर्दमः / के शब्दे / कङ्कः पक्षी। कुलिचिरिभ्यामिङ्कक् // 64 // आभ्यामिङ्कक् प्रत्ययः स्यात् / कुल बन्धुसंस्त्यानयोः। कुलिङ्कः चटकः / चिर हिंसायाम् सौत्रः। चिरिङ्क जलयन्त्रम् / कलेरविङ्कः // 65 // कलेरविङ्कः प्रत्ययः स्यात् / कलि शब्दसंख्यानयोः / कलविङ्कः गृहचटकः। क्रमेरेलकः // 66 // क्रमू पादविक्षेपे इत्यस्मादेलकः प्रत्ययः स्यात् / क्रमेलकः करमः। जीवेरातृको जैव च // 67 / / जीवप्राणधारणे इत्यस्मादातृकः प्रत्ययः स्यात् जैव इत्यादेशश्च / जैवातकः आयुष्मान् चन्द्रः आम्रः वैद्यः मेघश्च / जैवातृका जीवद्वत्सा स्त्री। हृभूलाभ्य आणकः // 68 // एभ्य आणकः प्रत्ययः स्यात् / हंग हरणे। हराणक: चौरः। भू सत्तायाम् / भवाणकः गृहपतिः। लांक आदाने / लाणकः हस्ती। प्रियः कित् // 69 // प्रींग्श् तृप्तिकान्त्योरित्यस्मादाणकः प्रत्ययः स्यात् स च कित् / प्रियाणकः। धालूशिविभ्यः // 7 // योगविभाग उत्तरार्थः / एभ्य आणकः प्रत्ययः स्यात् / डुधांग्क् धारणे च / धाणकः दीनारद्वादशभागः हविषां ग्रहः छिद्रपिधानं च / लूग्श् छेदने / लवाणकः कालः तृणजातिः दात्रं च। शिघु आघ्राणे। शिक्षाणकः नासिकामलः।
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy