SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. वा प्रत्ययेन सह यथासंख्य तुभ्यं मह्यम् इत्येतावादेशौ स्याताम् , प्राग्चाकः / तुभ्यम् मह्यम् / परमतुभ्यम् / परममह्यम् / प्रियस्त्वं प्रियौ युवां प्रिया यूयं वा यस्य तस्मै पियतुभ्यम् / प्रियमह्यम् / ङग्येति किम् / तुभ्यं हितं त्वद्धितम् / मद्धितम् / प्राग्चाक इत्येव / तुभ्यकम् / मह्यकम् / युवाभ्याम् / आवाभ्याम् / 316 अभ्यं भ्यसः // 2 / 1 / 18 / युष्मदस्मद्भ्यां परस्य तत्संबंधिनोऽन्य. संबंधिनो वा चतुर्थीभ्यसः स्थानेऽभ्यमादेशः स्यात् / अकारादिकरणमात्वबाधनार्थम् / 317 शेषे लुम् ॥२।१।को। यस्मिन् प्रत्यये आत्वयकारौ विहितौ ततोऽन्यः शेषस्तस्मिन् स्यादौ परे युष्मदस्मदोरन्तस्य लुक् स्यात् / युष्मभ्यम् / अस्मभ्यम् / अलिङ्गे युष्मदस्मदी इति अन्तलोपे स्त्रियामाप् न भवति / शेष इति किम् / त्वया / मया। 318 मोर्वा / / 2 / 1 / 9 // युष्मदस्मदोर्मकारान्तयोः स्वसंबंधिन्यन्यसंबंधिनि वा शेषे स्यादौ परे मकारस्य लुग्वा स्यात् / युवां युष्मान् वा आवामस्मान् वा आचष्टे णिचि किंपि तल्लुकि च युष्म् अस्म् इति मान्तत्वम् / युषभ्यम् / असभ्यम् / युष्मभ्यम् / अस्मभ्यम् / युषद् / असद् / युष्मद् / अस्मद् युषाकम्। असाकम् / युष्माकम् / अस्माकम् / शेष इत्येव / युषान् / असान् / युषाभिः। असाभिः। युषासु / असामु / एषु पूर्वेण मकारस्यात्वम् / टायोसि नित्यत्वात् त्वमादिकार्येभ्यः प्रथममेव पूर्वेण मकारस्य यत्वे युष्या / अस्या / युष्यि / अस्यि / युष्योः / अस्योः / अथ शब्दान्तरमाप्पा यत्वमप्यनित्यमित्याश्रीयते तदा परत्वात् पूर्व त्वमाधादेशे अकारस्य यत्वे त्व्या / म्या / त्व्यि / म्यि / युव्योः / आव्योः / अथ ' सकृद्गते स्पः यद् बाधितं तद् बाधितमेव ' इत्याश्रीयते तदा यत्वाभावे त्वेन / मेन / युवयोः / आवयोः / त्वे / मे / अत्रासदिसंबंधित्वात् डे: स्मिन्नादेशो न भवति / अथ ' किवर्थ प्रकृतिरेवाह ' इति सर्वादिसंबंधित्वं तदा भवत्येव स्मिन्नादेशः / सिजस्डेडस्पत्यये तु परत्वात् त्वमहमादय एवादेशा भवनि / त्वम् / अहम् / यूयम् / वयम् / तुभ्यम् / मह्यम् / तव / मम / एके तु मन्योयुष्मदस्मदोरादेशानेच्छन्ति / . 319 सश्चाद् // 2 / 1 / 19 // युष्मदस्मद्भ्यां परस्य स्वसंबंधिनोऽन्य
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy