________________ 62 सिद्धहैमबृहत्पक्रिया. [व्यंजनान्तपुंल्लिा 311 यूयं वयं जसा // 2 / 1 / 13 / / युष्मदस्मदोः स्वसंबंधिनाऽन्यसंबंधिना वा जसा सह यथासंख्यं यूयं वयमित्यादेशौ स्याताम् , प्राग्चाकः / यूयम् / वयम् / परमयूयम् / परमवयम् / प्रियस्त्वम् प्रियौ युवां प्रिया यूयं च येषां ते प्रिययूयम् / प्रियवयम् / जसेति किम् / यूयं पुत्रा अस्य युष्मत्पुत्रः / अस्मत्पुत्रः / प्राग्चाक इत्येव / यूयकम् / वयकम् / 312 त्वमौ प्रत्ययोत्तरपदे चैकस्मिन् // 21 // 11 // एकत्वविशिष्टेऽर्थे वर्तमानयोर्युष्मदस्मदोर्मन्तावयवस्य स्वसंबंधिन्यन्यसंबंधिनि वा स्यादौ परे प्रत्ययोत्तरपदयोश्च परयोर्यथासंख्यं त्व म इत्येतावादेशौ स्याताम् / 'लुगस्यादेत्यपदे' इत्यकारलोपे अमो मत्वे दस्यात्वे च त्वाम् / माम् / प्रत्ययोत्तरपदयोः खल्वपि / तव अयं त्वदीयः मदीयः / त्वया कृतम् त्वत्कृतम् / मत्कृतम् / त्वामाचष्टे त्वदयति मदयतीत्यत्र नित्यत्वादन्त्यस्वरादिलोपात् प्रागेव त्वमादेशौ / कश्चित्तु पूर्वमन्त्यस्वरादिलोपे त्वमादेशे अकारस्य वृद्धौ प्वागमे च त्वापयति मापयति, किपि तु त्वाप माप इत्याह / एकस्मिन्निति किम् / युष्माकम् / एकत्वेन युष्मदस्मदोविशेषणादिह न भवति / अतिक्रान्तं युष्मान् अतियुष्माम् / अत्यस्माम् / प्रत्ययोत्तरपदे चेति किम् / त्वय्यधि अधियुष्मद् / अध्यस्मद् / अन्तरङ्गत्वात् स्यादिद्वारेणैव त्वमादेशे सिद्ध प्रत्ययोत्तरपदग्रहणं 'बहिरङ्गापि लुप् अन्तरङ्गान् विधीन् बाधते ' इति न्यायज्ञापनार्थम् / तेन यद तद् इत्यादावन्तरङ्गमपि त्यदायत्वादि न भवति / एके तु निमित्तनिरपेक्षमेकत्वविशिष्टेऽर्थे वर्तमानयोस्त्वमादेशाविच्छन्ति / तन्मते अधित्वत् / अधिमत् / मन्तस्येत्येव / त्वकं पिताऽस्य त्वत्पितृकः / अत्राक्सहितस्य मा भूत् / प्रत्ययग्रहणेनैव सिद्धे स्यादावित्युत्तरार्थमनुवर्तते / युवाम् / आवाम् / 313 शसो न // 2 / 1 / 17 // युष्मदस्मद्भ्यां परस्य तत्संबंधिनोऽन्यसंबंघिनो वा शसःस्थाने न इत्ययमादेशः स्यात् / अकार उच्चारणार्थः / युष्मान् / अस्मान् / प्रिययुष्मान् / प्रियास्मान् / प्रियस्त्वं येषां तान् प्रियत्वान् / पियमान् / पियौ युवां येषां तान् मिययुवान् / प्रियावान् / टायां त्वमादेशे / ___ 314 टायोसि यः // 2 / 1 / 7 / युष्मदस्मदोः स्वसंबंधिष्वन्यसंबंधिषु वा टाङिओस इत्येतेषु स्यादिषु परेषु यकारोऽन्तादेशः स्यात् / त्वया / मया / युवाभ्याम् / आवाभ्याम् / युष्माभिः। अस्माभिः / 315 तुभ्यं मह्यं ज्या // 2 / 1 / 14 // युष्मदस्मदोः स्वसंबंधिनाऽन्यसंबंधिना