SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. र्थात् प्रकरणाद्वापेक्ष्ये निर्माते सति समासोऽन्वादेशश्च / द्वितीयाटौसिति किम् / एते मेधाविनो विनीता अथो एते शास्त्रस्य पात्रम् / एताभ्यां रात्रिरधीता अथो एताभ्यामहरप्यधीतम् / एतस्मै मूत्रं देहि अथो एतस्मै अनुयोगमपि देहि / अभ्युदयनिःश्रेयसपदमेतच्छासनमथो एतस्मै नमो भगवते / अन्वादेशाभावे एतम् / एतौ / एतान् / एतेन / एतयोः 2 / यत्रापि वस्तुमात्र निर्देशं कृत्वा विधानं क्रियते तत्रापि न भवति- ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः। एतमातं डिन्तं विद्यात् // ... युष्मदस्मदोस्त्रिष्वपि लिङ्गेषु समान रूपमलिङ्गत्वात् / 307 त्वमहं सिना प्राग्चाऽकः // 2 / 1 / 12 // युष्मदस्मदोः स्वसंबंधिनाऽन्यसंबंधिना वा सिना सह यथासंख्यं त्वम् अहम् इत्येतावादेशो स्याताम् , तौ चाक्प्रत्ययप्रसङ्गेऽकः प्रागेव / त्वम् / अहम् / प्रियस्त्वं प्रियौ युवां प्रिया यूयं वा यस्य स प्रियत्वम् / प्रियाहम् / एषु परत्वात्त्वमौ युवावौ च बाधित्वा त्वमहमावेव भवतः / सिनेति किम् / युष्माभिः / अस्माभिः / सिलुपि. 'लुप्यम्बल्लेनत् / इति निषेधान्न भवति / त्वं पुत्रोऽस्य त्वत्पुत्रः / मत्पुत्रः / एवमुत्तरेष्वपि / प्राक् चाक इति किम् / त्वकमहकमित्यत्राकः श्रुतिर्थथा स्यात् / अन्यथा 'तन्मध्यपतितस्तद्ग्रहणेन गृह्यते ' इति न्यायात् साकोरप्यादेशः स्यात् / केचित्तु त्वां मां चाचष्टे इति णौ त्वमादेशे वृद्धौ किपि मन्तयोरेव त्वाहादेशविधानात् सौ त्वाम् , माम् इति, धातोरेव वृद्धिरिति मते त्वं मम् इत्येव च भवतीति मन्यन्ते / ते हि प्रकृतिमात्रस्यादेशान् डेजस्सीनाममादेशं डसस्त्वकारं चेच्छन्ति / .... _308 मन्तस्य युवावौ द्वयोः // 2 / 1 / 10 // द्वित्वविशिष्टेऽर्थे वर्तमानयोयुष्मदस्मदोर्मन्तस्य-मकारावसानस्यावयवस्य तत्संबंधिन्यन्यसंबंधिनि वा स्यादौ परे यथासंख्यं युव आव इत्येतावादेशो स्याताम् / युवद् / आवद् / इति तावद भवति / 309 अमौ मः // 2 / 1 / 16 // युष्मदस्मद्भ्यां परयोस्तत्संबंधिनोर्वा अम् औ इत्येतयोर्म इत्ययमादेशः स्यात् / अकार उच्चारणार्थः / ...310 युष्मदस्मदोः // 2 / 1 / 6 // युष्मदस्मदित्येतयोः शब्दयोः स्वसंबंधिन्यन्यसंबंधिनि वा व्यंजनादौ स्यादौ परे आकारोऽन्तादेशः स्यात् / युवाम् / आवाम् / . . ...... ......... ... ..... ..... : .
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy