SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ उणादिप्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 739 नञः पुंसेः // 32 // नञः परात् घुसण् अभिमर्दने इत्यस्मात् किदकः प्रत्ययः स्यात् / नपुंसकं तृतीया प्रकृतिः / नखादित्वात् नबत् न भवति / कीचकपेचकमेनकार्भकधमकवधकलघकजहकैरकैडकाश्मकलमकक्षुल्लकवदकाढकादयः // 33 // कीचकादयः शब्दा अकप्रत्ययान्ता निपात्यन्ते / कचि बन्धने / अस्योपान्त्यस्येत्वं च / कीचकः वंशविशेष / डुपचीं पाके / मचि कल्कने / मनिंच ज्ञाने / एषामुपान्त्यस्यैत्वं च / पेचकः करिजघनभागः। मेचकः वर्णः। मेनका अप्सरा:। अर्तेर्भश्चान्तः। अर्भकः वालः। मां शब्दानिसंयोगयोः / अस्य धमादेशश्च / धमक: कीटः करिश्च / अन्यत्रापि धमादेशो दृश्यते / क्ते धान्तः / हन्तेर्वधश्च / वधकः हन्ता व्याधिश्च / वधकं पद्मबीजम् / अन्यत्रापि दृश्यते / वृत्रं हन्ति अचि वृत्रवधः शक्रः / वधिता निर्मोचकः / वध्यः, वधनम् / लघुङ् गतौ / नलुक् च / लघकः असमीक्ष्यकारी। जहाते₹ रूपे अन्तलुक् च / जहकः निर्मोचकः कालः क्षुद्रश्च / ईरिक् गतिकम्पनयोः। ईडिक् स्तुतौ / अनयोर्गुणश्च / एरका उदकतृणजातिः / एडका अविजातिः। अशौटि व्याप्तौ / अस्य मोऽन्तः। अश्मका जनपदः। रमि क्रीडायाम् / अस्य लमादेशः। लमक ऋषिविशेषः / क्षुद्रूपी संपेषे / अस्य क्षुल्लादेशश्च / क्षुल्लकं दभ्रम् / क्षुधं लातीति क्षुल्लः, क्षुल्ल एव क्षुल्लक इति वा / वट वेष्टने। अस्य वोऽन्तश्च / वट्वका तृणपुञ्जः। आपूर्वात् ढोकतेर्डिच्च / आढकं मानम् / आदिग्रहणाद् बृहत्तन्त्रात् कला आपिवन्तीति कलापकाः शास्त्राणि / कथण वाक्यप्रबन्धे / कथयतीति कथकः तोटका. ख्यायिकादीनां वर्णयिता / एवमुपकचम्पकफलहकादयोऽपि / शलिबलिपतिवृतिनभिपटितटितडिगडिभन्दिवन्दिमन्दिनमिकुदुपूमनिखजिभ्य आकः॥३४॥ एभ्य आकः प्रत्ययः स्यात् / पल फल शल गतौ। शलि चलने च वा / शलाका एषणी पूरणरेखा द्यूतोपकरणं सूची च / बल पाणनधान्यावरोधयोः / बलाका जलचरी शकुनिः / पल गतौ / पताका वैजयन्ती। वृतूङ् वर्तने / वर्ताका शकुनिजातिः। णभच् हिंसायाम् / नभाकः चक्रवाकजातिः तमः काकश्च / पट गतौ / पटाका वैजयन्ती पक्षिजातिश्च / तट उच्छाये / तटाकं सरः / तडण आघाते / तडाकं तदेव / गड सेचने / गडाकः शाकजातिः / भदुङ् सुखकल्याणयोः / भन्दाकं शासनम् / वदुङ् स्तुत्यभिवादनयोः। वन्दाकः चीवरभिक्षुः / मदुङ् स्तुत्यादिषु / मन्दाका ओषधी / णमं महत्वे / नमाका म्लेच्छजातिः।
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy