SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ 738 सिद्धहैमबृहत्मक्रिया. [कृदन्ते खेटकम् / टुवम् उद्गिरणे / वमकः कर्मकरः। तमूच काङ्क्षायाम् / तमकः व्याधिः क्रोधश्च / अव रक्षणादौ / अवका शैवलम् / देव देवने / देवका अप्सराः। देविका नदी / बन्धंश् बन्धने / बन्धकः चारकपालः / कनै दीप्त्यादिषु / कनकं सुवर्णम् / जनैचि प्रादुर्भावे / जनकः सीतापिता / मश रोषे च। मशकः क्षुद्रजन्तुः। क्षर संचलने ण्यन्तः / क्षारकं बालमुकुलम् / कुरत् शब्दे / कोरकं प्रौढमुकुलम् / वृतूङ् वर्तने / वर्तका वर्तिका वा शकुनिः / वल्लि संवरणे / वल्लकी वीणा / मल्लि धारणे / मल्लकः शरावः। मल्लिका पुष्पजातिः, दीपाधारश्च / सल्लः सौत्रः / सल्लकी वृक्षः / सत्कृत्य लक्यते वाघते गजैरिति वा सल्लकी। अली भूषणादिषु / अलक: केशविन्यासः / अलका पुरी। कोरुरुण्टिरण्टिभ्यः // 28 // कुशब्दात् परेभ्य एभ्योऽकः प्रत्ययः स्यात् / रुक् शब्दे / कुरुबकः वृक्षः / रुटु स्तये / कुरुण्टको वर्णगुच्छः। रण्टिः प्राणहारणे सौत्रः / कुरण्टकः स एव / ध्रुधून्दिरुचितिीलपुलिकुलिक्षिपिक्षुपिक्षुभिलिखिभ्यः कित् // 29 // एभ्यः किदकः प्रत्ययः स्यात् / धुं स्थैर्ये च ध्रुवकः स्थिरः। ध्रुवका आवपनविशेषः। धूत विधूनने / धुवकं धूननम्। धुवकः प्रधानम् / स्त्री धुवका आवपनविशेषः। उन्दैप क्लेदने। उदकं जलम् / रुचि अभिप्रीत्यां च / रुचकः आभरणविशेषः। तिलत् स्नेहने। तिलकः विशेषकः वृक्षश्च / पुलत् समुछाये / पुल महत्त्वे वा पुलकः रोमाञ्चः। कुल बन्धुसंस्त्यानयोः / कुलकं संयुक्तम् / लिपीत् पेरणे / क्षिपकः वायुः। क्षिपका आयुधम् / क्षुपः सौत्रो इस्वीभावे / क्षुपकः गुल्मः / शुभच् संचलने / क्षुभकः पाञ्चालकः / लिखत् अक्षरविन्यासे / लिखकः चित्रकरः / छिदिभिदिपिटेर्वा // 30 // एभ्योऽकः प्रत्ययः स्यात् स च किद्वा / छिद्रूपी द्वैधीकरणे / छिदकः खड्गः क्षुरश्च / छेदकः परशुः / भिट्ठेपी विदारणे / भिदकं जलं पिशुनश्च। भेदकं वज्रम् / पिट शब्दे च। पिटकः क्षुद्रस्फोटकः। पेटकं संघातः। कृषेर्गुणवृद्धी च वा // 31 // कृषेरकः प्रत्ययः स्यात् गुणवृद्धी चास्य वा / कृषत् विलेखने / कर्षकः कृषकः परशुः। कर्षक: कृषकः कुटुम्बी। .
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy