________________ उणादिप्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. 737 हिंट गतिद्धयोः। हीकः पक्षी / पित् गतौ। पीक उपस्थो जलाश्रयश्च। टुक् वृत्त्यादिषु / तूकः उपस्थः पर्वतश्च / शुं गतौ / शूकः किंशारुः अभिषवः शोकश्च / शूका हल्लेखः / हियो रश्च लो वा // 28 // हियः कित् कः प्रत्ययः स्यात रेफस्य च लकारो वा / ह्रीकः, ह्रीकः लज्जापरः नकुलश्च / ह्रीको लिङ्गयपि / निष्कतुरुष्कोदालर्कशुल्कश्वफल्ककिञ्जल्कोल्कावृक्कच्छककेकायस्कादयः। 26 // एते कप्रत्ययान्ता निपात्यन्ते / नेः सीदतेर्डिच्च / निष्कः सुवर्णादिः। तुरैचि खरायाम् / अस्य ह्रस्व उपश्चान्तः / तुरुष्कः वृक्षः म्लेच्छश्च / उदः परादतः। उदर्कः क्रियाफलम् / अली भूषणादौ / अस्मादर चान्तः / अलर्कः उन्मत्तो मदालसात्मजश्च / पलफलशलगतौ इत्यस्योपान्त्योत्वं च / शुल्कं रक्षार्निवेशः / शुनः परात् फाले ईस्वश्च / श्वफल्कः अन्धकविशेषः। किमः परात् जषो रस्य लश्च / किञ्जल्कः पुष्परेणुः / ज्वलेरुलादेशश्च उले; सौत्रस्य वा / उल्का औत्पातिकं ज्योतिः अग्निज्वाला च / वृजैकि वजने / अगुणत्वं च / वृकः मुष्कः। छयतिकायत्योरेत्वं च / छेकः मनीषी। केका मयूरवाक् / यमर्मस्य सः। यस्कः। आदि. ग्रहणात् ढक्कास्पृक्कादयोऽपि / दृकृनृमृशृधृवृमृस्तुकुक्षुलविचरिचटिकटिकण्टिचणिचषिफलिवमितम्यविदेविवन्धिकनि जनिमशिक्षारिकूरितिवल्लिमल्लिसल्लयलिभ्योऽकः // 27 // एभ्योऽकः प्रत्ययः स्यात् / दृश् विदारणे / दरकः भीरुः / कृत विक्षेपे / करकः जलभाजनं कमण्डलुश्च / करका वर्षपाषाणः। नृश् नये / नरकः निरयः। सं गतौ। सरको मद्यविशेषः कसभाजनविशेषश्च / सरका मधुपानवारः / टुडुभृगक पोषणे च / भरकः गोण्यादिः / धुंङ अवध्वंसने / धरकः सुवर्णोन्माननियुक्तः। दृग्ट् वरणे / वरकः वधूनातिसहायः वाजसनेयभेदश्च। मृत् प्राणत्यागे। मरकः जनोपद्रवः / ष्टुंग्क स्तुतौ / स्तबकः पुष्पगुच्छः / कुंक् शब्दे / कवकमभक्ष्यद्रव्यविशेषः / टुक्षुक शब्दे / क्षवकः राजसर्षपः / लघुङ् गतौ / लङ्घकः रंगोपजीवी। चर भक्षणे च / चरकः मुनिः / चटण भेदे / चटकः पक्षी / कटे वर्षावरणयोः / कटकः वलयः। कटु गतौ / कण्टकः तरुरोम / चण शब्दे / चणकः मुनिः धान्यविशेषश्च / चपी भक्षणे / चषकः पानभाजनम् / फल निष्पत्तौ / फलकः 93