________________ 740 सिद्धहैमबृहत्सक्रिया. [कृदन्ते कुंङ शब्दे / कवाकः पक्षी / दुदुंट् उपतापे / दवाकः म्लेच्छः। पूङ् पवने / पवाका वात्या / मनिच ज्ञाने / मनाका हस्तिनी / खज मन्थे / खजाकः आकरः मन्थाः दविः आकाशं बन्धकी शरीरं पक्षी च / ... शुभिगृहिविदिपुलिगुभ्यः कित् // 35 // एभ्यः किदाकः प्रत्ययः स्यात् / शुभि दीप्तौ / शुभाका पक्षिजातिः / गृहणि ग्रहणे / गृहाकः / विदंक् ज्ञाने / विदाका भूतग्रामः / पुल महत्वे / पुलाकः अर्धखिन्नविधो धान्यविशेषः। गुंङ् शब्दे गुंत पुरीषोत्सर्गे वा / गुवाकं पूगफलम् / पिषः पिपिण्यौ च // 36 // पिप्लंप संचूर्णने इत्यस्मात् किदाकः प्रत्ययः स्यात् अस्य च पिन् पिण्य इत्यादेशौ। पिनाकमैशं धनुः शूलं वा। पिनाकः दण्डः। पिण्याकस्तिलादिखलः / मवाकश्यामाकवार्ताकवृन्ताकज्योन्ताकगूवाकभद्राकादयः // 37 // एते आकप्रत्ययान्ता निपात्यन्ते / मव्य बन्धने। यलोपः। मवाकः रेणुः। श्यैङ् गतौ मोऽन्तश्च / श्यामाकः जघन्यो व्रीहिः। वृतेर्वृद्धिश्च / वार्ताकी शाकविशेषः। तत्फलं वार्ताकम् / स्वरान्नोऽन्तश्च / वृन्ताकी उच्चबृहती / तत्फलं वृन्ताकम् / ज्युङ् गतौ / न्तश्च प्रत्ययादिः। ज्यवतेऽस्मिन् विद्यमान इति ज्योन्ताकं स्वेदसविशेषः। गुंत् पुरीपोत्सर्गे, गुंङ् शब्दे वा / ऊवादेशश्च / गूवाकं पूगफलम् / भदुङ् सुखकल्याणयोः। अस्य भद्रादेशश्च / भद्राकः अकुटिलः। आदिग्रहणात् स्योनाकचार्वाकपराकादयो भवन्ति / ____क्रीकल्यलिदलिस्फटिदूषिभ्य इकः / 38 // एभ्य इकः प्रत्ययः स्यात् / डुक्रींग्श् द्रव्यविनिमये / क्रयिकः क्रेता। कलि शब्दसंख्यानयोः / कलिका कोरकः। उत्कलिका ऊर्मिः। अली भूषणादौ / अलिकं ललाटम् / दल विशरणे / दलिकं दारु / स्फट स्फुट्ट विशरणे। स्फटिकः मणिः। दुषंच वैकृत्ये / दृषिका नेत्रमलः। आङः पणिपनिपदिपतिभ्यः // 39 // आङः परेभ्य एभ्य इकः प्रत्ययः स्यात् / पणि व्यवहारस्तुत्योः। आपणिकः पत्तनवासी व्यवहारज्ञो वा। पनि स्तुतौ। आपनिकः स्ताबकः इन्द्रनीलः इन्द्रकीलो वा / पदिच् गतौ / आपदिकः इन्द्रनीलः