________________ उणादिप्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 735 जजलतितलकाकोलीसरीसृपादयः // 18 // एते अप्रत्ययान्ता निपात्यन्ते / जल घात्ये / अस्य द्वित्वे पूर्वस्य जभावः / जजल: / यस्य जाजलिः पुत्रः। तिलत स्नेहने / अस्य द्वित्वे पूर्वस्य च तिभावे धातोरिकारस्याकारे तितलः / कुल बन्धुसंस्त्यानयोः / अस्य द्वित्वे पूर्वस्य च काभावे कालोली क्षीरकाकोली च वल्लीजातिः / सप्लं गतौ / अस्य द्वित्वे गुणाभावे पूर्वस्य च सरीभावे सरीसृपः उरगजातिः / आदिग्रहणाद् यथादर्शनमन्येऽपि / ___ बहुलं गुणवृद्धी चादेः // 19 // धातोः किदः प्रत्ययः स्यात् सरूपे च द्वे रूपे पूर्वस्य चेकारोकारावन्तौ यथादर्शनं च गुणदृद्धी / केलिकिल: कैलिकिलश्च हसनशीलः। हिलन् हावकरणे / हेलिहिला हैलिहिलश्च विलसनशीलः! शेलिशिलः, शैलिशिलः। शुभि दीप्तौ / शोभते पुनःपुनरिति शोभुशुभः,शौभुशुभः। णुदत् प्रेरणे। नुदति पुनः पुनरिति नोदुनुदः नौदुनुदः। गुडत् रक्षायाम् / गुडति भ्राम्यति पुनः पुनरिति गोलुगुल;, गौलुगुलः / बुलण निमज्जने / बोलयति पुनःपुनरिति बोलुबुलः, बौलबुलः / तत्तद्धावस्तिच्छीला अनुवादविशेषा वैते / णेलुप्॥२०॥ धातोरप्रत्ययसन्नियोगे वहुलं गेलृप् स्यात् / वज्रं धारयतीति वनधर इन्द्रः। एवं चक्रधरो विष्णुः / भूधरः अद्रिः / जलधरो मेघः / बाहुलकात् प्रत्ययान्तरेऽपि / देवयतीति दिव-द्यौः व्योम स्वर्गश्च / पुण्यं कारयन्तीति पुण्यकृतो देवाः। एवं पर्ण शोपयतीति पर्णशुट् / “वान्ति पर्णशुषो बातास्ततः पर्णमुचोऽपरे / ततः पर्णरुहः पश्चात् ततो देवः प्रवर्षति " // तथा ' महतः कारयाञ्चक्रुराक्रन्दान्' इति प्राप्ते ' महतश्चक्रुराक्रन्दान्' इति भवति / ' महीपालवचः श्रुखा जुघुषुः पुष्यमाणवाः" घोषयाञ्चरित्यर्थः। भीणशलिबलिकल्यतिमर्च्यर्चिमृनिकुतुस्तुदाधारात्राकापानिहानशुभ्यः कः // 21 // एभ्यः कः प्रत्ययः स्यात् / अिभीक् भये / विभेति / दुन्दुभात् परस्माच भेकः मण्डूकः कातरश्च / विभेति वायोर्भेको मेघः / इंण्क् गतौ। एत्यद्वितीय एकः असहायः संख्याप्रधानमसमानमन्यश्च / पल फल शल गतौ / शलन्त्यात्मरक्षणाय तमिति शल्कः शरणम् / शलति त्यक्तं बहिरिति शल्कं गृहीतरसं