SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ 734 सिद्धहैमबृहत्मक्रिया. [ कृदन्ते गमेर्जम् च वा // 13 // गमेरः प्रत्ययः स्यात् सरूपे च द्वे रूपे पूर्वस्य च जम् इत्यादेशो वा / गम्लं गतौ। गच्छति पादविहरणं करोति जङ्गमः चरः / गच्छत्यमाध्यस्थ्यं गङ्गमः चपलः। अदुपान्त्यऋभ्यामश्चान्तः // 14 // अकारोपान्त्याहकारान्ताच्च धातोरः प्रत्ययः स्यात् सरूपे च द्वे रूपे पूर्वस्य चान्तोऽकारः। पल फल शल गतौ / शलशलः। सल गतौ / सलसलः। हल विलेखने / हलहलः। कलि शब्दसंख्यानयोः। कलकलः। मलि धारणे / मलमलः। घटिए चेष्टायाम् / घटघटः। वद व्यक्तायां वाचि / वदवदः। पदिंच गतौ / पदपदः / ऋदन्त-डुकुंग करणे। करकरः। मृत प्राणत्यागे। मरमरः। दृत् आदरे / दरदरः। सं गतौ / सरसरः। गृट् वरणे / वरवरः। अनुकरणशब्दा एते। मषिमसेर्वा // 15 // आभ्यामः प्रत्ययः स्यात् सरूपे च द्वे रूपे पूर्वस्य चान्तोऽकारो वा / मप हिंसायाम् / मषमषः, मष्मषः। मसैच् परिमाणे। मसमसः। मस्मसः। हृमृफलिकषेरा च // 16 // एभ्योऽः प्रत्ययः स्यात् सरूपे च द्वे रूपे पूर्वस्य चाकारान्तः / हंग हरणे / हरति नयति शस्त्राण्यस्खलन् लक्ष्यं हराहरः योग्याचार्यः। सं गतौ / सरति धावति वायुना नीयमानः समन्तात् सरासरः सारङ्गः। फल निष्पतौ / फलति निष्पादयति नानाविधानि पुष्पफलानि फलाफलमरण्यम् / कष हिंसायाम् / कषति विदारयति कषाकषः कृमिजातिः / ___ इदुदुपान्त्याभ्यां किदिदुतौ च // 17 // इकारोपान्त्यादुकारोपान्त्याच कित् अः प्रत्ययः स्यात् सरूपे च द्वे रूपे पूर्वस्य च यथासंख्यमिकारोकारौ चान्तौ / किलत् श्वैत्यक्रीडनयोः। किलिकिलः। हिलत् हावकरणे / हिलिहिलः। शिलत् उन्छे / शिलिशिलः / छुरत् छेदने / छुरुच्छुरः / मुरत् संवेष्टने / मुरुमुरः / घुरत् भीमार्थशब्दयोः / घुरुघुरः / पुरत् अग्रगमने / पुरुपुरः। पुरत् ऐश्वर्यदीप्त्योः / सुरुसुरः / कुरत् शब्दे / कुरुकुरः / चुरण स्तेये / चुरुचुरः / हुल हिंसासंवरणयोश्च / हुलुहुलः। गुजत् शन्दे / गुजुगुजः। गुडत् रक्षायाम् / गुडुगुडः। कुटत् कौटिल्ये / कुटुकुटः / पुटत् संश्लेषणे / पुटुपुटः / कुणत् शब्दोपकरणयोः / कुणुकुणः / मुणत् प्रतिज्ञाने / मुणुमुणः। अनुकरणशब्दा एते /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy